________________
प्रथमाध्ययनटीकागतगाथाविवरणम्
व्या० अस्ति लोकस्य विपक्षो व्युत्पत्तिमच्छुद्धपदाभिधेयत्वाद्, इह यद् व्युत्पत्तिमता शुद्धपदेनाभिधीयते तस्य विपक्षो दृष्टः, यथा घटस्याऽघटः, यश्च लोकस्य विपक्षः सोऽलोकः । अथ स्यान्मतिः- न लोकोऽलोक इति यो लोकस्य विपक्ष: स घटादिपदार्थानामन्यतम एव भविष्यति, किमिह वस्त्वन्तरपरिकल्पनया ? तदेतन्न, पर्युदासनञा निषेधात् निषेध्यस्यैवानुरूपोऽत्र विपक्षोऽन्वेषणीयः, न लोकोऽलोक इत्यत्र च लोको निषेध्यः, स चाकाशविशेषः, अतोऽलोकेनापि 5 तदनुरूपेण भवितव्यम्, यथेहापण्डित इत्युक्ते विशिष्टज्ञानविकलश्चेतन एव पुरुषविशेषो गम्यते, नाचेतनो घटादिः । एवमिहापि लोकानुरूप एवालोको मन्तव्यः । उक्तं चनञ्युक्तमिवयुक्तं वा यद्धि कार्यं विधीयते ।
२३
तुल्याधिकरणेऽन्यस्मिन् लोकेऽप्यर्थगतिस्तथा ॥ १॥ [
]
नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः, तस्माल्लोकविपक्षादस्त्यलोक इति ।। [पृ०२४] अथालोकास्तित्वादेव धर्माधर्मास्तिकाय साधयन्नाहतम्हा धम्मा-ऽधम्मा, लोगपरिच्छेयकारिणो जुत्ता । इहराऽऽगासे तुल्ले, लोगोऽलोगो त्ति को भेओ ? ॥५७॥ लोगविभागाभावे, पडिघाताभावओऽणवत्थाओ ।
संववहाराभावो, संबंधाभावओ होजा ॥५८॥ [ विशेषाव० १८५२-१८५३] ॥ व्या॰ यस्मादुक्तप्रकारेणास्त्यलोकस्तस्मादलोकास्तित्वादेवावश्यं लोकपरिच्छेदकारिभ्यां धर्माधर्म्मास्तिकायाभ्यां भवितव्यम्, अन्यथा आकाशसामान्ये सत्ययं लोकोऽयं चाऽलोक इति किंकृतोऽयं विशेषः स्यात् ? तस्माद्यत्र क्षेत्रे धर्माधर्मास्तिकायौ वर्तेते तल्लोकः, शेषं त्वलोक इति लोकालोकव्यवस्थाकारिणौ धर्माधर्मास्तिका विद्येते इति ।
Jain Education International
For Private & Personal Use Only
10
लोगेत्यादि, यदि हि धर्माधर्माभ्यां लोकविभागो न स्यात्ततो लोकविभांगाभावेऽविशिष्ट 20 एव सर्वस्मिन्नप्याकाशे गतिपरिणतानां जीवानां पुद्गलानां च प्रतिघाताभावेन तद्गत्यवस्थानाभावादलोकेऽपि गमनात्तस्य चानन्तत्वात्तेषां परस्परसम्बन्धो न स्यात्, ततश्च औदारिकादिकार्मणवर्गणापर्यन्तपुद्गलकृतो जीवानां बन्ध-मोक्ष - सुख-दुःख - भवसंसरणादिव्यवहारो न स्यात् । जीवस्य च जीवेन सहान्योन्यं मीलनाभावात्तत्कृतोऽनुग्रहोपघातादिव्यवहारो न स्यादिति ॥ [ पृ० २५] जह वेह कंचणोवलसंजोगोऽणादिसंत गओ वि ।
वोच्छिजड़ सोवायं, तह जोगो जीवकम्माणं ॥ ५९ ॥ [विशेषाव०९८१९] व्या० यथा वा काञ्चनोपलयोरनादिकालप्रवृत्तसन्तानभावगतोऽपि संयोगः सोपायं अग्नितापाद्युपायाद् व्यवच्छिद्यते, तथा जीवकर्मणोरपि संयोगोऽनादिसन्तानगतोऽपि
15
25
www.jainelibrary.org