SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ वाचकसुमतिकल्लोल - वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे अच्छिणिमीलियमेत्तं णत्थि सुहं दुक्खमेव अणुबंधं । ण णेरइयाणं, अहोणिसिं पच्चमाणाणं ॥ १ ॥ असुभा उव्वियणिज्जा, सद्द - रसा रूवगंघफासा य । रए रइयाणं, दुक्कयकम्मोवलित्ताणं ॥२॥ [ ] इत्यादि । 5 एवं शेषानुभावोऽपि वाच्यः, तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाज्ज्ञानं नीलाल्लोहितमित्यादिप्रकारेण भवनमित्यर्थः । जानीहि अवबुध्यस्व चतुर्विधमेनम् ओघतः पर्यायलोकं समासेन सङ्क्षेपेणेति गाथार्थः ॥ तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि, तदुपदर्शनेन निगमयन्नाहवण्ण-रस-गंध-संठाण- फास- ट्ठाण - गई - वण्णभेए य । 10 परिणामे य बहुविहे, पज्जवलोगं वियाणाहि || [ आव० भा० २०३ ] व्या० वर्ण-रस- गन्ध-संस्थान- स्पर्श-स्थान-गति-वर्णभेदाश्च चशब्दाद्रसादिभेदपरिग्रहः । अयमत्र भावार्थः- वर्णादयः सभेदा गृह्यन्ते, तत्र वर्णः कृष्णादिभेदात् पञ्चधा, रसोऽपि तिक्तादिभेदात् पञ्चधैव, गन्धः सुरभ्यादिभेदाद् द्विधा, संस्थानं परिमण्डलादिभेदात् पञ्चधैव, स्पर्शः कक्खटादिभेदादष्टधा, स्थानमवगाहनालक्षणं तदाश्रयप्रदेशभेदादनेकधा, गतिः 15 स्पर्शवद्गतिरित्यादिभेदाद् द्विधा, चशब्द उक्तार्थ एव, अथवा कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाद्यनेकभेदोपसङ्ग्रहार्थ इति । अनेन किल द्रव्यगुणा इत्येतद् व्याख्यातम्, परिणामांश्च बहुविधानित्यनेन तु चरमं द्वारम्, शेषं द्वारद्वयं स्वयमेव भावनीयम्, तच्च भावितमेवेत्यक्षरगमनिका। भावार्थस्त्वयम्- परिणामांश्च बहुविधान् जीवाजीवभावगोचरान् किम् ? पर्यायलोकं विजानीहि इति गाथार्थः॥ अक्षरयोजना पूर्ववदिति द्वारम् । साम्प्रतं लोकपर्यायशब्दान्निरूपयन्नाह २२ 20 आलुक्कड़ पलुक्कड़, लुक्कड़ संलुक्कई य एकट्ठा । लोगो अट्ठविहो खलु, तेणेसो वुच्चाई लोगो || [ आव० भा० १०५८ ] व्या० आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संलोक्यत इति च संलोकः, एते एकार्थिकाः शब्दाः, एवं लोकोऽष्टविधः खल्वित्यत्र आलोक्यत इत्यादि 25 योजनीयम्, अत एवाह - तेनैष उच्यते लोकः येन आलोक्यत इत्यादि भावनीयम् [इति] गाथार्थः ॥ व्याख्यातो लोकः । [पृ०२३] विपक्षद्वारा दृष्टान्तद्वाराऽलोकं साधयन्नाह लोगस्सऽत्थि विवक्खो, सुद्धत्तणओ घडस्स अघडो व्व । प्रेरक :- स घडादी चेव मई, गुरुः- न निसेहाओ तदणुरूवो ॥ ५६॥ [विशेषाव० १८५१] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy