________________
प्रथमाध्ययनटीकागतगाथाविवरणम् उक्तः काललोकः, लोकयोजना पूर्ववत्, अधुना भवलोकमभिधित्सुराहनेरइअ-देव-मणुआ, तिरिक्खजोणीगया य जे सत्ता । तम्मि भवे वटुंता, भवलोगं तं वियाणाहि ॥ [आव०भा० १९९]
व्या० नारक-देव-मनुष्यास्तथा तिर्यग्योनिगताश्च ये सत्त्वाः प्राणिनस्तम्मि त्ति तस्मिन् भवे वर्तमानाः यद्नुभावमनुभवन्ति भवलोकं तं विजानीहि, लोकयोजना पूर्ववदिति गाथार्थः।। 5
साम्प्रतं भावलोकमुपदर्शयतिओदइए उवसमिए, खइए य तहा खओवसमिए य । परिणामि सन्निवाए य, छव्विहो भावलोगो उ ॥ [आव०भा० २००]
व्या० उदयेन निर्वृत्त औदयिकः, कर्मण इति गम्यते, तथा उपशमेन निर्वृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः, एवं शेषेष्वपि वाच्यम् । ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च 10 पारिणामिकश्च सान्निपातिकश्च,एवं षड् विधो भावलोकस्तु । तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति । उक्तं च
ओदइय खओवसमे, परिणामेक्केक्को गतिचउक्के वि । खयजोगेण वि चउरो. तदभावे उवसमेणं पि ॥ उवसमसेढी एक्को, केवलिणो वि य तहेव सिद्धस्स । अविरुद्धसन्निवाइयभेदा एमेव पण्णरस ॥ [ ] त्ति गाथार्थः । तिव्वो रागो य दोसो य उइन्ना जस्स जंतुणो । जाणाहि भावलोगं अणंतजिणदेसियं सम्मं ॥ [आव०भा० २०१]
व्या० तीव्र उत्कटो रागश्च द्वेषश्च । तत्राभिष्वङ्गलक्षणो रागः, अप्रीतिलक्षणो द्वेष इति। एतावुदीर्णो यस्य जन्तोर्यस्य प्राणिन इत्यर्थः । तं प्राणिनं तेन भावेन लोक्यत्वाजानीहि 20 भावलोकम् अनन्तजिनदेशितम् एकवाक्यतयाऽनन्तजिनकथितम्, सम्यगिति क्रियाविशेषणम् । अयं गाथार्थः ॥ द्वारम् ॥
साम्प्रतं पर्यायलोक उच्यते, तत्रौघतः पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं चाधिकृत्य चतुर्विधं पर्यायलोकमाह____दव्वगुण-खित्तपजव-भवाणुभावे य भावपरिणामे ।
25 जाण चउव्विहमेयं, पज्जवलोगं समासेणं ।।
व्या० द्रव्यस्य गुणा रूपादयः, तथा क्षेत्रस्य पर्यायाः अगुरुलघवः, भरतादिभेदा एव चान्ये, भवस्य च नारकादेरनुभावस्तीव्रतमदुःखादिः, यथोक्तम्
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org