________________
२० वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे परमाणुव्यतिरेकेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयम्, परमाणवस्त्वप्रदेशा एव। अन्ये तु व्याचक्षते-जीवः किल कालादेशेन नियमात् सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशो वेति । एवं धर्मास्तिकायादिष्वपि त्रिष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यम्। पुद्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा- द्रव्यतः परमाणुरप्रदेशः व्यणुकादयः सप्रदेशाः, 5 क्षेत्रत एकप्रदेशावगाढोऽप्रदेशः व्यादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकानेकसमयस्थितिः, भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण । प्रकृतमुच्यते-इदमेवम्भूतं जीवाजीवव्रातं जानीहि द्रव्यलोकम्, द्रव्यमेव लोको द्रव्यलोक इति कृत्वा । अस्यैव शेषधर्मोपदर्शनायाह- नित्यानित्यं च यद् द्रव्यम्, चशब्दाद् अभिलाप्या-ऽनभिलाप्यादिसमुच्चय इति गाथार्थः ॥
साम्प्रतं जीवाजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाहगइसिद्धा भविआया, अभविय पुग्गल अणागयद्धा य । तीयद्धतिन्नि काया, जीवाजीवट्टिई चउहा ॥ [आव०भा० १९६]
व्या० अस्याः सामायिकवद् व्याख्या कार्येति द्वारम् । अधुना क्षेत्रलोकः प्रतिपाद्यते तत्र
आगासस्स पएसा, उडं च अहे य तिरियलोए अ । 15 जाणाहि खेत्तलोगं, अणंतजिणदेसि सम्मं ॥ [आव०भा० १९७]
व्या० आकाशस्य प्रदेशाः, प्रकृष्टा देशाः प्रदेशास्तान्, ऊर्ध्वं चेत्यूर्ध्वलोके च, अधश्चेत्यधोलोके च, तिर्यग्लोके च, किम् ? जानीहि क्षेत्रलोकम्, क्षेत्रमेव लोकः क्षेत्रलोक इति कृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः । अनन्तमि
त्यलोकाकाशप्रदेशापेक्षया चाऽनन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, जिनदेशितमिति जिनकथितं सम्यक् 20 शोभनेन विधिनेति गाथार्थः ॥
साम्प्रतं काललोकप्रतिपादनायाहसमयावलियमुहुत्ता, दिवस-अहोरत्त-पक्ख-मासा य । संवच्छर-जुग-पलिया, सागर-उसप्पि-परियट्टा ॥ [आव०भा० १९८]
व्या० इह परमनिकृष्टः कालस्समयोऽभिधीयते, असङ्ख्येयसमयमाना त्वावलिका, द्विघटिको 25 मुहूर्त्तः, षोडश मुहूर्त्ता दिवसः, द्वात्रिंशदहोरात्रम्, पञ्चदशाहोरात्राणि पक्षः, द्वौ पक्षौ मासः,
द्वादश मासाः संवत्सरमिति, पञ्चसंवत्सरं युगम् । पल्योपममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयम्, सागरोपमं तद्वदेव, दशसागरोपमकोटीकोटिपरिमाणोत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, परावर्त्तः पुद्गलपरावर्त्तः, स चानन्तोत्सर्पिण्यवसर्पिणीप्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः अनन्ता एवैष्यन्निति गाथार्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org