________________
5
प्रथमाध्ययनटीकागतगाथाविवरणम् विपक्षो वैधर्म्यम्, प्रत्ययः प्रत्यभिज्ञानादिः, आदिशब्दात् स्वनिहितप्रत्यनुमार्गणस्मरणादिपरिग्रहः। अध्ययनं पुनःपुनर्ग्रन्थाभ्यासः, ध्यानम् एकालम्बने मनःस्थैर्यम्, भावना पौन:पुन्येनानित्यत्वादिप्रकारतो भवनैर्गुण्यपरिभावनरूपा, एतानि सर्वाण्यप्युत्पत्त्यनन्तरमेव वस्तुनः सर्वनाशेऽङ्गीक्रियमाणे कथमुपपद्यन्ते ? इति ॥
[पृ०२०] किमित्येतन्मिथ्यात्वम् ? इत्याहजमणंतपज्जयमयं वत्थु भवणं व चित्तपरिणामं । ठिईविभवभंगरूवं निच्चानिच्चाइ तोऽभिमयं ॥५३॥ [विशेषाव० २४१६] ।
व्या० यद् यस्मान्नैकान्तत: पर्यायमयम्, नाप्येकान्तेन द्रव्यरूपम्, किन्त्वनन्तपर्यायस्थित्युत्पादविनाशरूपत्वाद् भू-भवन-विमान-द्वीप-समुद्रादिरूपतया त्रिभुवनमिव समस्तमपि वस्तु नित्या-ऽनित्यादिरूपतया विचित्रपरिणामम् अनेकस्वरूपं भगवतामभिमतम्, अतोऽस्यैकान्त- 10 विनश्वरलक्षणैकरूपाभ्युपगमो मिथ्यात्वमेवेति ॥ अपि च[पृ०२०] एवं च- सुहदुक्ख-बंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता ।
एगयरपरिच्चाए, सव्वव्ववहारवोच्छित्ती ॥५४॥ [विशेषाव० २४१७] व्या० एवं पूर्वोक्तप्रकारेण सुखदुःख-बन्धमोक्षाः उभयनयमतानुवर्त्तिनो वादिनो युक्ताः, एकतरनयपरित्यागे सर्वव्यवहारव्युच्छित्तिः ॥ [पृ०२२] तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरूपणायाह
नामं ठवणा दविए, खित्ते काले भवे य भावे य ।
पज्जवलोगे य तहा, अट्ठविहो लोगनिक्खेवो ॥ [आव०नि० १०७०] व्या० नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोकः भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः ॥ व्यासार्थं तु भाष्यकार 20 एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराह
जीवमजीवे रूवमरूवी सप्पएसमप्पएसे य । जाणाहि दव्वलोगं निच्चमनिच्चं च जं दव्वं ॥ [आव०भा० १९५]
व्या० जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवो विपरीतस्त्वजीवः, एतौ च द्विभेदौ रूप्यरूपिभेदाद्, आह च-- रूप्यरूपिणाविति । 25 तत्रानादिकर्मसन्तानपरिगता रूपिणः संसारिणः, अरूपिणस्तु कर्मरहितास्सिद्धा इति । अजीवास्त्वरूपिणो धर्माधर्माकाशास्तिकायाः, रूपिणस्तु परमाण्वादय इति । एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह- सप्रदेशाप्रदेशाविति । तत्र सामान्यविशेषरूपत्वात्
15
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org