________________
१८ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
न हि सव्वहा विणासो, अद्धापजायमेत्तनासम्मि । सपरप्पजायाणंतधम्मुणो वत्थुणो जुत्तो ॥४८॥ [विशेषाव० २३९३]
व्या० नहि सर्वथैव वस्तुनो विनाशो युक्तः, क्व सति ? इत्याह- अद्धापर्यायमात्रनाशे, तत्र इहाऽद्धा नारकादीनामुत्पत्तिप्रथमादिसमयः, स एव पर्यायमात्रम्, तस्य नाशोऽपगमस्तस्मिन् 5 सति । कथम्भूतस्य वस्तुनः ? इत्याह- स्वपरपर्यायानन्तधर्मकस्य, इदमुक्तं भवति-यस्मिन्नेव
समये तन्नारकवस्तु प्रथमसमयनारकत्वेन समुच्छिद्यते तस्मिन्नेव समये द्वितीयसमयनारकत्वेनोत्पद्यते, जीवद्रव्यतया त्ववतिष्ठते, ततो यदि नाम अद्धापर्यायमात्रमुच्छिन्नं ततः सर्वस्य वस्तुनः समुच्छेदे किमायातम् ? अनन्तपर्यायात्मकस्य वस्तुनः एकपर्यायमात्रोच्छेदे सर्वोच्छेदस्य दूरविरुद्धत्वादिति ॥
[पृ०२०] अथ सर्वेषां भावानां साक्षेपं क्षणिकत्वादिप्रश्नपूर्वकं तदुक्तपक्षमनूद्य सद्यस्तत्पक्ष 10 तिरस्कुर्वन् स्वपक्षं च सद्युक्त्या पुरस्कुर्वन् गाथाषट्कमाह
कह वा सव्वं खणिअं, विनायं जइ मई सुआओ त्ति । तदसंखसमयसुत्तत्थगहणपरिणामओ जुत्तं ॥४९॥ न तु पइसमयविणासे, जेणेकेक्कक्खरं पि य पयस्स । संखाईयसामइयं संखिजाइं पयं ताई ॥५०॥ संखेजपयं वक्त्रं, तदत्थगहणपरिणामओ होजा । सव्वखणभंगनाणं, तदजुत्तं समयनट्ठस्स ॥५१॥ [विशेषाव० २४०१-२४०३]
व्या० वा इत्यथवा पर्यनुयुज्यते भवान् ननु सर्वं वस्तु क्षणिकमित्येतत् कथं भवता विज्ञातमिति वक्तव्यम्, श्रुतादिति चेन्ननु तच्छुतादर्थविज्ञानम् असङ्ख्येयसमयैर्निष्पन्नो यः
सूत्रार्थग्रहणपरिणामस्तस्मादेव युक्तम्, न तु प्रतिसमयविनाशे, इदमुक्तं भवति-असङ्ख्येयानेव 20 समयान् यावच्चित्तस्यावस्थाने सर्वं क्षणिकमिति विज्ञानोपयोगो युज्यते, न तु प्रतिसमयोच्छेदे।
अत्र कारणमाह- येन यस्मात् कारणात् पदस्य सावयवत्वात्तत्सम्बन्ध्येकैकमप्यक्षरं सङ्ख्यातीतसामयिकम्, असङ्ख्यातैः समयैर्निष्पद्यत इत्यर्थः । तानि चाक्षराणि सङ्ख्यातानि समुदितानि पदं भवति, सङ्ख्यातैश्च पदैर्वाक्यं निष्पद्यते, तदर्थग्रहणपरिणामाच्च
वाक्यार्थग्रहणपरिणामादित्यर्थः, सर्वक्षणभङ्गज्ञानं भवेत्, तच्चोत्पत्तिसमयानन्तरमेव नष्टस्य 25 समुच्छिन्नस्य मनसोऽयुक्तमेवेति ।
अन्यदपि क्षणभङ्गवादे यन्नोपपद्यते तद्दर्शयति[पृ०२०] तित्ती समो किलामो, सारिक्ख-विवक्ख-पच्चयाईणि ।
अज्झयणं झाणं भावणा य का सव्वनासम्मि ? ॥५२॥ [विशेषाव० २४०४] व्या० तृप्तिर्धाणिः, मार्गगमनादिप्रवृत्तस्य खेदः श्रमः, क्लमो ग्लानिः, सादृश्यं साधर्म्यम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org