________________
प्रथमाध्ययनटीकागतगाथाविवरणम्
ssर्थान्तरभूत एव गुणी, तत एवं सति घटादयोऽपि गुणिनो न प्रत्यक्षाः, तदर्थान्तरभूतस्य रूपादिगुणमात्रस्यैव ग्रहणात् । इह यद्यस्मादर्थान्तरभूतं तद्ग्रहणेऽपि नेतरस्य ग्रहणम्, यथा घटे गृहीते पटस्य, अर्थान्तरभूताश्च गुणिनो गुणा इष्यन्ते, अतो गुणग्रहणेऽपि न गुणिग्रहणमतो घटादीनामपि समानेऽग्रहणदोषे कोऽयं नाम भवतः केवले जीवे विचारो नास्तित्वविवक्षा, येनोच्यते- पच्चक्खं जं न दीसई घडो व्वे [ विशेषाव० १५४९] त्यादि ? अथ द्रव्यविरहिताः केऽपि 5 न सन्त्येव गुणा इत्यतस्तद्ग्रहणद्वारेण गृह्यन्त एव घटादयः । नन्वेतदात्मन्यपि समानमेव। किञ्च, गुणिनो गुणानामर्थान्तरत्वेऽभ्युपगम्यमाने गुणी भवतु मा भूद्वा प्रत्यक्षस्तथाऽपि ज्ञानादिगुणेभ्यः पृथगात्मा गुणी त्वदभ्युपगमेनापि सिध्यत्येवेति ।
[पृ०१८] जो कत्तादि स जीवो, सज्झविरुद्धो त्ति ते मई होज्जा ।
10
मुत्ताइपसंगाओ, तन्नो संसारिणो दोसो ॥४६॥ [विशेषाव० १५७० ] त्ति । व्या० यश्चायमनन्तरं देहेन्द्रियादीनां कर्त्ता अधिष्ठाता आदाता भोक्ता अर्थी चोक्तः स सर्वोऽपि जीव एव, अन्यस्य ईश्वरादेर्युक्त्यक्षमत्वेन कर्तृत्वाद्यसम्भवादिति । अथ साध्यविरुद्धसाधकत्वाद् विरुद्वा एते हेतव इति तव मतिर्भवेत्, तथाहि - घटादीनां कर्त्रादिरूपाः कुलालादयो मूर्तिमन्तः सङ्घातरूपा अनित्यादिस्वभावाश्च दृष्टा इत्यतो जीवोऽप्येवंविध a सिध्यति, एतद्विपरीतश्च किलास्माकं साधयितुमिष्टः, इत्येवं साध्यविरुद्धसाधकत्वं हेतूनामिति । 15 तदेतदयुक्तत्वान्न, यतः खलु संसारिणो जीवस्य साधयितुमिष्टस्यादोषोऽयम्, सह्यष्टकर्मपुद्गलसङ्घातोपगूढत्वात् सशरीरत्वाच्च कथञ्चिन्मूर्त्तत्वादिधर्मयुक्त एवेति भावः ॥
[पृ०१९] यच्च न य जीवलिंगसंबंधदरिसणमभू [विशेषाव० १५५१] इत्यादिपूर्वोक्तपूर्वपक्षानुसारेण मन्यसे त्वम्, किम् ? इत्याह
सोऽणेगंतो जम्हा, लिंगेहिं समं अदिट्ठपुव्वो वि ।
गहलिंगदरिसणाओ, गहोऽणुमेओ सरीरम्मि ||४७ ॥ [विशेषाव ० १५६६ ] व्या० ततो न लिङ्गतो लिङ्गादनुमेयोऽसौ जीवः, यतः किम् ? इत्याह-यतो न खलु लिङ्गैः कैश्चिदपि समं लिङ्गी जीवः क्वापि केनापि पुरा पूर्वं गृहीतः, किंवत् ? इत्याहशृङ्गमिव शशकेन समम्, ततो लिङ्गलिङ्गिनोः पूर्वं सम्बन्धाग्रहणान्न लिङ्गाज्जीवोऽनुमीयते, इति मन्यसे त्वम्, तत्र प्रतिविधीयते - सोऽणेगंतो सोऽनेकान्तः, यस्मात् लिङ्गैः सममदृष्टपूर्वोऽपि 25 ग्रहो देवयोनिविशेषः शरीरे हसन- गान - रोदन - कर-चरण- १ -भ्रूविक्षेपादिविकृतलिङ्गदर्शनादनुमीयत इति बालानामपि प्रतीतमेवेति ॥
[पृ०१९] आत्मनोऽविनाशित्वमेव द्रढयन्नाह
Jain Education International
१७
For Private & Personal Use Only
20
www.jainelibrary.org