________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे [पृ०१६ पं०७] होइ कयत्थो वोत्तुं सपयच्छेयं सुअं सुआणुगमो ।
सुत्तालावन्नासो नामाइन्नासविणिओगं ॥४१॥ सुत्तप्फासिअनिजुत्तिनियोगो सेसओ पयत्थाई ।
पायं सो च्चिअ नेगमनयाइमयगोअरो होइ ॥४२॥ [विशेषाव० १००९-१०१०] 5 व्या० अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः
कृतार्थोऽवसितप्रयोजनो भवति, सूत्रालापकन्यासस्तु निक्षेपतृतीयभेदस्वरूपो नामस्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते, वक्ष्यमाणं प्रायोग्रहणमत्रापि सम्बध्यते, ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना-प्रत्यवस्थानलक्षणव्याख्याचतुष्टयरूप:
सूत्रस्पर्शि(श)कनिर्युक्तेर्नियोगो व्यापारः, स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो 10 भवति, पदार्थादावेव कथ्यमाने नैगमादिनयप्रवृत्तेरिति ॥
[पृ०१८ पं०१५] अन्वयदृष्टान्तेनात्मनः प्रत्यक्षत्वमेव साधयन् गाथात्रयमाह महाग्रन्थकृत्गुणपच्चक्खत्तणओ, गुणी वि जीवो घडो व्व पच्चक्खो । घडओ वि घिप्पड़ गुणी, गुणमेत्तग्गहणओ जम्हा ॥४३॥ [विशेषाव० १५५८]
व्या० प्रत्यक्ष एव गुणी जीवः, स्मृति-जिज्ञासा-चिकीर्षा-जिगमिषा-संशीत्यादिज्ञानविशेषाणां 15 तद्गुणानां स्वसंवेदनप्रत्यक्षसिद्धत्वाद्, इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टो यथा घटः,
प्रत्यक्षगुणश्च जीवस्तस्मात् प्रत्यक्षः, यथा घटोऽपि गुणी रूपादिगुणप्रत्यक्षत्वादेव प्रत्यक्षः तद्वद् विज्ञानादिगुणप्रत्यक्षत्वादात्मापीति ।।
आह- अनैकान्तिकोऽयम्, यस्मादाकाशगुणः शब्दः प्रत्यक्षोऽस्ति, न पुनराकाशमिति, तदयुक्तम्, यतो नाकाशगुणः शब्दः, किन्तु पुद्गलगुणः, ऐन्द्रियकत्वात्, रूपादिवदिति ॥ 20 [पृ०१८] गुणानां प्रत्यक्षत्वे गुणिनस्तद्रूपतायां किमायातमिति चेदुच्यते
अन्नोऽणन्नो व्व गुणी, होज गुणेहिं जइ नाम सोऽणन्नो । नणु गुणमेत्तग्गहणे, घिप्पइ जीवो गुणी सक्खं ॥४४॥ अह अन्नो तो एवं, गुणिणो न घडादओ वि पच्चक्खा । गुणमित्तग्गहणाओ, जीवम्मि कुतो विआरोऽयं ॥४५॥[विशेषाव० १५५९-१५६०] ति।
व्या० ननु भवता गुणेभ्यो गुणी किमर्थान्तरभूतोऽभ्युपगम्यतेऽनर्थान्तरभूतो वा ?, यदि नाम सोऽनन्यस्तेभ्योऽनर्थान्तरभूतस्तर्हि ज्ञानादिगुणग्रहणमात्रादेव गुणी जीवः प्रत्यक्षेण गृह्यत इति सिद्धमेव । प्रयोगः- यो यस्मादनन्तरं स तद्ग्रहणे गृह्यत एव, यथा वाससि रागः, गुणेभ्योऽनर्थान्तरं च गुणी, तस्माद् गुणग्राहकप्रत्यक्षेण सोऽपि गृह्यत एवेति । अथ
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only