SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्ययनटीकागतगाथाविवरणम् १५ १ व्या० यथा आहिताग्निः कृतावसथादिर्ब्राह्मणः ज्वलनम् अग्निं नमस्यति, किं विशिष्टम् ? इत्याह- नानाऽऽहुतिमन्त्रपदाभिषिक्तम्, तत्र आहुतयो घृतप्रक्षेपादिरूपाः, मन्त्रपदानि 'अग्नये स्वाहा'इत्येवमादीनि, तैरभिषिक्तं दीक्षासंस्कृतमित्यर्थः । एवमग्निमिव आचार्यमुपतिष्ठेद् विनयेनासेवेत । किंविशिष्ट इत्याह- अनन्तज्ञानोपगतोऽपीति, अनन्तं स्व- परपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानम्, तदुपगतोऽपि सन्, किं पुनरज्ञ इति गाथार्थः ॥ [पृ०१५ पं०७] निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं, उवउत्तेहिं सुणेयव्वं ||३८|| [ पञ्चवस्तुके १००६ ] व्या० निद्राविकथापरिवर्जितैः परिवर्जितनिद्राविकथैरित्यर्थः, गुप्तैर्मनो - वाक्कायगुप्तैः, पंजलिउडेहिं ति निष्ठान्तस्य प्राकृतत्वात् परनिपात इति कृतप्राञ्जलिभिः, भक्तिः यथोचिता बाह्या प्रतिपत्तिः, बहुमानम् आन्तरः प्रीतिविशेषः, तत्पूर्वमुपयुक्तैः श्रवणैकनिष्ठैः श्रोतव्यं 10 गुरुवचनमिति शेषः ॥ [पृ०१५ पं०२७] वस्तुनो नित्यानित्यत्वमेव विशेषतः प्रकटयन्नाह - सव्वं चिअ पइसमयं, उप्पज्जइ नस्सए अ निच्चं च । एवं चेव य सुहदुक्ख - बंधमोक्खादिसन्भावो ॥ ३९ ॥ [ विशेषाव० ५४४ ] व्या० सर्वमेव वस्तु प्रतिसमयम् उत्पद्यते नश्यति च नित्यं चेति, कोऽर्थः ? 15 आद्यास्त्रयो नयाः द्रव्यार्थवादितया नित्यं वस्तु, इतरे नयाः पर्यायार्थवादितया अनित्यं सर्वं मन्वते, उभयमताश्रयणेन नित्यानित्यं वस्तु । अयमाशयः - द्रव्यार्थतया नित्यम्, कदापि तन्नाशाभावात्, पर्यायार्थतया त्वनित्यम्, प्रतिसमयं तदन्यान्यसद्भावात् । एवमेव च अनेनैव प्रकारेण सुख-दुःख-बन्ध-मोक्षादिसद्भावः ॥ [पृ०१६ पं०४] अनुगमादिस्वरूपमाह सुत्तं सुत्ताणुगमो, सुत्तालावगैकओ अ निक्खेवो । सुत्तप्फासिअजुत्ती, नया य समगं तु वच्चंति ॥४०॥ [ विशेषाव० १००१] व्या० तदेवं सूत्रानुगमोऽनुगमप्रभेदः, तथा सूत्रालापकगतस्य निक्षेपो निक्षेपद्वारतृतीयभेदः, तथा सूत्रस्पर्शिका निर्युक्तिः निर्युक्त्यनुगमतृतीयभेदः, तथा नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः समकं युगपत् प्रतिसूत्रं व्रजन्ति गच्छन्तीति ॥ १. अस्मिन् गाथाविवरणे यत्र यत्र दशवैकालिकसूत्रात् तन्निर्युक्तेर्वा किमपि उद्धृतं तत्र दशवैकालिकसूत्रस्य हारिभद्री वृत्तिः तुलनार्थं द्रष्टव्या ॥ २. एवं विशेषावश्यके ॥ ३. गगओ - विशेषावश्यके ॥ Jain Education International 5 For Private & Personal Use Only 20 25 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy