________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे वेअवयणं तु नेवं, अपोरुसेअं तु तं मयं जेण । इदमच्चंतविरुद्धं, वयणं च अपोरुसेअं च ॥३२॥ [पञ्चवस्तु० १२७८]
व्या० वेदवचनं तु नैवं सम्भवत्स्वरूपम्, अपौरुषेयम् एव तन्मतम्, येन कारणेन इदमत्यन्तविरुद्धं यदुत- वचनं चापौरुषेयं चेति । एतद्भावनायाह5 [पृ०१३ पं०१८] जं वुच्चइ त्ति वयणं, पुरिसाभावे उ नेअमेयं ति ।
ता तस्सेवाभावो, निअमेण अपोरुसेअत्ते ॥३३॥ [पञ्चवस्तु० १२७९] [पृ०१४ पं०७] भत्तीइ जिणवराणं खिजति पुव्वसंचिया कम्मा ।
आयरिअनमोक्कारेणं विज्जा मंता य सिझंति ॥३४॥ [आवश्यकनि० १११०] व्या० भक्त्या जिनवराणां पूर्वसञ्चितानि पूर्वभवसञ्चयीकृतानि कर्माणि खिजंतीति क्षयं 10 यान्ति, च पुनराचार्यनमस्कारेण विद्या मन्त्रास्सिध्यन्ति, नमस्कारश्चेह भक्तिरिति ॥
[पृ०१४ पं०२२] गुरुकुलवासस्यैव ज्ञानादिकारणतां पुरस्कुर्वन् गाथाद्वयमाहनाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥३५॥
गीयावासो रई धम्मे अणायतणवजणं । ___ 15 निग्गहो अ कसायाणं, एअं धीराण सासणं ॥३६॥
[बृहत्कल्प० ५७१३-५७१४, विशेषाव० ३४५९-३४६०] व्या० ज्ञानस्य श्रुतज्ञानादेर्भवति स्याद् भागी भाजनं गुरुकुले वसन्निति प्रकृतम्, प्रत्यहं वाचनादिभावात् । तथा स्थिरतरकः पूर्वप्रतिपन्नदर्शनोऽपि सन्नतिशयस्थिरो भवति दर्शने
सम्यक्त्वे, अन्वहं स्वसमय-परसमयतत्त्वश्रवणात्, तथा चरित्रे चरणे स्थिरतरो भवति, अनुवेलं 20 वारणादिभावात्, चशब्दः समुच्चये । यत एवं ततो धन्या धर्मधनं लब्धारो यावत्कथं यावजीवं गुरुकुलवासं गुरुगृहनिवसनं न मुञ्चन्ति न परित्यजन्तीति गाथार्थः ॥
तथा गुरुकुलवासे वसतां साधूनां गीतावासः, रतिर्द्धर्मे धर्मे साधुधर्मे रागो भवति, अनायतनवर्जनम्, अनायतनानि साधूनामयोग्यानि यानि, तेषां वर्जनम्, च पुनः कषायाणां निग्रहो भवति उदयविफलीकरणेन कषाया निगृहीता एव, एतद्धीराणां शिष्याणां गुरुकुलवासिनां 25 शासनं शिक्षा ॥ [पृ०१५ पं०२] जहाऽऽहिअग्गी जलणं नमसे, नाणाहुतीमंतपयाभिसित्तं ।
एवायरिअं उवचिट्ठएजा, अणंतनाणोवगओ वि संतो ॥३७॥ [दशवै० ९।१।११] १. न माणं-स्थानाङ्गवृत्तौ ॥ २. बृहत्कल्पभाष्ये 'भीयावासो इति पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org