________________
प्रथमाध्ययनटीकागतगाथाविवरणम्
प्रियमपि वक्तव्यम्,
सत्यं ब्रूयात् प्रियं ब्रूयात्, ब्रूयात् सत्यमपि प्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥१॥ [ ] इति गाथार्थः । [पृ०१२ पं० २०] वुढे वि दोणमेहे, न कण्हभूमाउ लोट्टए उदयं ।
गहणधरणासमत्थे, इय देयमच्छित्तिकारिम्मि ॥३०॥ [विशेषाव० १४५८] 5 व्या० यावता वृष्टेनाकाशबिन्दुभिर्महती गर्गरी भ्रियते तावत्प्रमाणजलवर्षी मेघो द्रोणमेघ उच्यते, तस्मिन् वृष्टेऽपि सति कृष्णभूमिर्यत्र प्रदेशेऽसौ कृष्णभूमः प्रदेशस्तस्मान्न प्रलोठति बह्वपि तन्मेघजलं पतितं न लुठित्वाऽन्यत्र गच्छति, किन्तु तत्रैवान्तः प्रविशतीति भावः । एवं शिष्योऽपि स कश्चिद्भवति यो गुरुभिरुक्तं बह्वप्यवधारयति, न पुनरक्षरमपि पार्श्वतो गच्छतीत्येवम्भूते च सूत्रार्थग्रहणावधारणासमर्थे शिष्ये सूत्रार्थयोः शिष्यप्रशिष्यपरम्पराप्रदानेनाऽव्यवच्छेदकारिणि 10 देयं सूत्रार्थजातम्, नान्यस्मिन्निति गाथार्थः ॥
(पृ०१२ पं०२३] ननु परोपकारकारकैराचार्यवर्घनवृष्टिदृष्टान्तेन शिष्टाशिष्टशिष्याणां सूत्रार्थदानं कथं न क्रियत इति चेत्तत्र दोषमाह -
आयरिए सुत्तम्मि अ, परिवाओ सुत्तअत्थपलिमंथो । अन्नेसि पि अ हाणी, पुट्ठा वि न दुद्धदा वंझा ॥३१॥ [विशेषाव० १४५७] 15
व्या० आचार्ये सूत्रेऽपि च आगमे परिवादोऽवर्णवादो लोकसमुत्थो भवति, तद्यथा'अहो ! नास्य सूरेः प्रतिपादिका शक्तिर्नापि तथाविधं किमपि परिज्ञानम्, यतोऽमुमप्येकं शिष्यमवबोधयितुं न क्षमः, आगमोऽप्यमीषां सम्बन्धी निरतिशयो युक्तिविकलश्च, इतरथा कथमयमेकोऽप्यस्मान्नावबुध्यते' इत्यादि । तथा सूत्रार्थयोरन्तरायसम्भवात् परिमन्थनं मर्दनं विनाशनं सूत्रार्थपरिमन्थः, तच्छिक्षणप्रवृत्तस्य सूरेरात्मनः सूत्रपठन-परावर्तन-व्याख्यानभङ्गो 20 भवतीत्यर्थः, परं च तद्ग्रहणप्रसक्ते सूरौ अन्येषां शिष्याणां सूत्रार्थहानिः, तद्ग्रहणभङ्ग इत्यर्थः। न च बहुनाऽपि कालेन तथाविधः शिष्यः किञ्चिदपि ग्राहयितुं शक्यः । कुतः ? इत्याशङ्क्याऽत्रार्थे दृष्टान्तमाह-पुट्ठा वीत्यादि, नियमनेन नियन्त्र्य स्तनेषु करैर्बहुधा स्पृष्टाऽपि वन्ध्या गौर्न खलु दुग्धदा भवति, एवं मुद्गशैलसमः शिष्योऽपि ग्राहणकुशलेनाऽपि गुरुणा ग्राह्यमाणोऽपि नाक्षरमपि गृह्णाति, ततस्तादृशस्य सूत्रार्थो न दातव्यः, 25 ऐहिकामुष्मिकक्लेशादिबहुदोषसम्भवात्, ददाति चेत्तर्हि समयोक्तप्रायश्चित्तभागिति ॥ ।
[पृ०१३ पं०१६] नन्विदमपि सूत्रमपौरुषेयं भविष्यतीति चेत्, न, व्यतिरेकदृष्टान्तेनास्य पौरुषेयत्वं प्रतिपादयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org