________________
१२ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे नारकादीनामिति, आदिशब्दात्तिर्यङ्-नरा-ऽमरपरिग्रहः, भव इति द्वारपरामर्शः स्वभवे स्थितिर्भवजीवितम् इत्युक्तं भवजीवितम् । तब्भव तत्थेव उप्पत्ति त्ति, तस्मिन् भवे जीवितं तद्भवजीवितम्, इदं चौदारिकशरीरिणामेव भवति, यत आह तत्रैवोत्पत्तिस्तत्रैव उपपात इत्यर्थः, तेषां चेदं स्वकायस्थित्यनुसारतो विज्ञेयमिति गाथार्थः । उक्तं तद्भवजीवितम् ॥ 5 भोगम्मि चक्किमाई संजमजीयं तु संजयजणस्स ।
जसकित्ती अ भगवओ, [आव०नि०१०४४]
व्या० भोगम्मि त्ति द्वारपरामर्शः, भोगजीवितं च चक्रवर्त्यादीनाम्, आदिशब्दाबलदेववासुदेवादिपरिग्रहः, उक्तं भोगजीवितम् । संयमजीयं तु संजयजणस्स त्ति संयमजीवितं तु
संयतजनस्य साधुलोकस्य, उक्तं संयमजीवितम् । जसकित्ती य भगवतो त्ति यशोजीवितं भगवतो 10 महावीरस्य, कीर्तिजीवितमपि तस्यैव । अयं चानयोर्विशेष:- दानपुण्यफला कीर्तिः, पराक्रमकृतं
यशः इति । अन्ये त्विदमेकमेवाभिदधति । असंयमजीवितं चाविरतिगतं संयमप्रतिपक्षत्वेन गृह्यते ॥
[पृ०१२ पं०५] श्रुतमित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात्, उक्तं च15 किं एत्तो पावयरं ? सम्म अणहिगयधम्मसब्भावो ।
अण्णं कुदेसणाए कट्ठयरागम्मि पाडेइ ॥२८॥ [ ]
व्या० किमस्मात् पापतरम् ? अतिशयेन पापं पापतरम्, उत्कृष्टं पापमित्यर्थः । सम्यग् अनधिगतधर्मसद्भाव: अज्ञातधर्मसद्भावः स्वयं सम्यग्धर्मं न करोति, परम् अन्यम् आत्मव्यतिरिक्तं
कुदेशनया कुमार्गनिरूपणेन कट्ठयरागम्मीति कष्टतरागसि कष्टकार्यपराधे पातयति कदाग्रहे 20 स्थापयति, कुदेशनाव्युद्ग्राहितो जीवः सहस्रधोपदेशदानेऽपि शुद्धमार्ग नाङ्गीकरोतीति
पापतरप्रकारः॥ [पृ०१२ पं०१०] धम्ममएहिं अइसुंदरेहिं कारणगुणोवणीएहिं ।
पल्हायंतो अ मणं, सीसं चोएइ आयरिओ ॥२९॥ [उपदेशमाला १०४] व्या० धर्मेण निर्वृत्तानि निरवद्यत्वाद्धर्ममयानि, तैः, तथा अतिसुन्दरैर्वचनदोषरहितैः, 25 तथा कारणगुणोपनीतैः, तत्र कारणं स्वभणनप्रयोजनम्, गुणाः शिष्य(क्ष्य)माणस्य
ज्ञानभाजनतादयः, कारणं च गुणाश्चेति द्वन्द्वः, तैरुपनीतानि उपढौकितानि, शिष्यस्यापि प्रतीतावारोहितानीत्यर्थः, तैर्वचनैरिति गम्यते, प्रह्लादयन्निव मनश्चित्तमन्याश्रुतत्वात्तस्यैव, शिष्यं चोदयति शिष्य(क्ष)यत्याचार्यो गुरुरिति, तेन च प्रह्लादनं सत्यवचनैरेव कार्यम्, न पुनरसत्यं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org