________________
प्रथमाध्ययनटीकागतगाथाविवरणम्
निक्षेपस्य योग्यतां विवृण्वन्नाह
[पृ०११ पं०१] जत्थ उ जं जाणिज्जा, निक्खेवं निक्खिवे निरवसेसं ।
जत्थ वि अ न जाणेजा, चउक्कयं निक्खिवे तत्थ ||२६|| [आचाराङ्गनि०४] व्या० यत्र जीवादौ वस्तुनि यं जानीयात्तं निक्षेपं न्यासं यत्तदोर्नित्याभिसम्बन्धात् तत्र वस्तुनि तं निक्षेपं निक्षिपेत् निरूपयेन्निरवशेषं समग्रम्, यत्रापि न जानीयान्निरवशेषं निक्षेपं 5 तत्रापि नाम-स्थापना- द्रव्य-भावलक्षणं चतुष्कं निक्षिपेत् इदमुक्तं भवति यत्र तावन्नामस्थापना- द्रव्य- क्षेत्र - काल - भावादिलक्षणा भेदा ज्ञायन्ते तत्र तैः सर्वैरपि वस्तु निक्षिप्यते, यत्र तु सर्वे भेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य, न हि किमपि तद् वस्तु यन्नामादिचतुष्टयं व्यभिचरतीति गाथार्थः ॥
[पृ०११ पं०४] तदेवाह
नामं १ ठवणा २ दविए ३, ओहे ४ भव५ तब्भवे य ५ भोगे ७ अ । संजम ८ जस ९ कित्ती १० जीविअं च तं भण्णति दसहा ||२७|| [आव०नि० १०५६]
व्या० नामजीवितं १ स्थापनाजीवितं च २ द्रव्यजीवितम् ३ ओघजीवितं ४ भवजीवितं ५ तद्भवजीवितं ६ भोगजीवितं च ७ तथा संयमजीवितं ८ यशोजीवितं ९ कीर्तिजीवितं 15 १० च तद् भण्यते दशधेति गाथासमासार्थः ॥
अवयवार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नाम - स्थापने क्षुण्णत्वादनादृत्य शेषभेदव्याचिख्यासयाऽऽह
११
Jain Education International
दव्वे सच्चिताई, आउअसद्दव्वया भवे आहे ।
नेर आईण भवे, तब्भव तत्थेव उप्पत्ती || [ आवश्यकभा० १८९]
20
व्या० द्रव्य इति द्वारपरामर्शः, द्रव्यजीवितं सच्चित्तादि, आदिशब्दान्मिश्राचित्तपरिग्रहः । इह कारणे कार्योपचाराद् येन द्रव्येण सच्चित्ताचित्तमिश्रभेदेन पुत्र- हिरण्योभयरूपेण यस्य यथा जीवितमात्तं तस्य तथा द्रव्यजीवितमिति । द्विपदादिद्रव्यस्य चान्ये । उक्तं द्रव्यजीवितम् । आउअसद्दव्वया भवे ओहे त्ति आयुरिति प्रदेशकर्म, तद्द्द्रव्यसहचरितं जीवस्य प्राणधारणं सदैव संसारे भवेत्, ओघ इति द्वारपरामर्श: । ओघजीवितं सामान्यजीवितमित्यर्थः, इदं चाङ्गीकृत्य 25 यदि परं सिद्धाः मृता न पुनरन्ये कदाचन इति । उक्तमोघजीवितम् । नेरइआई
१. अत्र सर्वत्र यत्र आवश्यक निर्युक्तिगाथाया विवरणं तत्र प्रायः सर्वत्र हरिभद्रसूरिविरचितवृत्त्यनुसारेण लिखितमिति ध्येयम् ॥
For Private & Personal Use Only
10
www.jainelibrary.org