SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ १० वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे अथाध्ययनादीनां चतुर्णामपि क्रमेण गाथद्वयेन निरुक्तमाह[पृ०९ पं०९] जेण सुहज्झप्पयणं, अज्झप्पाणयणमहिअमयणं वा । ___ बोहस्स संजमस्स व, मोक्खस्स व तो तमज्झयणं ॥२२॥[विशेषाव० ९६०] व्या० इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च शुभमज्झप्पं चित्तं जणेइ त्ति प्पगारलोआओ 5 अज्झयणं, अहवा अज्झप्पाणयणं प्पगार-आकार-णगारलोवाओ अज्झयणं ति । अथवा बोधस्य संयमस्य मोक्षस्य वा अधिकमयनं तद्धेतुत्वात् प्रापकं यत्तदध्ययनमिति । [पृ०९ पं०१४] अज्झीणं दिजंतं, अव्वोच्छित्तिनयतो अलोगो व्व । ___आओ नाणाईणं, झवणा पावाण खवणं ति ॥२३॥ [विशेषाव० ९६१] व्या० अर्थिभ्योऽनवरतं दीयमानमपि वर्धत एव, न तु क्षीयते इत्यक्षीणम्, अथवा 10 अव्यवच्छित्तिनयमतेन सर्वदैवाव्यवच्छे दादलोकवदक्षीणम् । आयो लाभः प्राप्तिर्ज्ञानादीनामस्मादित्यायः । क्षपणा अपचयो निर्जरा पापकर्मणामस्मादिति क्षपणेति । [पृ०९ पं०१८] नामं १ ठवणा २ दविए ३ माउअपय ४ संगहेक्कए चेव ५ । पज्जव ६ भावे ७ अ तहा, सत्तेते एक्कगा होति ॥२४॥ [दशवै०नि०८,२१८] व्या० इयं गाथा वृत्तिकृतैव व्याख्यातेति न प्रतन्यते ॥ 15 व्याख्यायाः किं लक्षणमित्याह[पृ०१० पं०१६] सुत्तं १ पयं २ पयत्थो ३, संभवतो विग्गहो ४ विआरो ५ य । __ दूसिअसिद्धी नयमयविसेसओ नेयमणुसुत्तं ॥२५॥ [विशेषाव०१००२] व्या० व्याख्यानविधौ प्रस्तुते प्रथमं तावदस्खलितादिगुणोपेतं यथोक्तलक्षणयुक्तं सूत्रमुच्चारणीयम्, इयं चान्यत्रास्खलितपदोच्चारणरूपा संहिता भण्यते । ततश्च पयमिति पदच्छेदो 20 दर्शनीयः, ततः पदार्थो वक्तव्यः, ततः सम्भवतो विग्रह इति समासः कर्तव्यः, ततश्चालनारूपो विचारः कर्तव्यः, ततो दूषितसिद्धिर्दूषणपरिहारः प्रत्यवस्थानरूपो निरूपणीयः, एवमुक्तक्रमेणाऽनुसूत्रं नयमतविशेषतो नयानां मतविशेषैर्व्याख्यानं ज्ञेयमिति ।। [पृ०१० पं०२०] होइ कयत्थो वोत्तुं, सुपयच्छेयं सुअं सुआणुगमो ॥ विशेषाव०१००९] गाथार्द्धम्। 25 व्या० सुगमम्, नवरं सुपदच्छेदं सुष्ठकृतपदच्छेदं श्रुतम्, स च श्रुतानुगमो भवति वक्तुं कृतार्थः, सूत्रानुगमस्य श्रुतपदच्छेदरूपत्वादिति ॥ १. 'प्पजणं इति पाठोऽत्र ॥ २. सप' इति विशेषावश्यके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy