SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्ययनटीकागतगाथाविवरणम् अत्र परमगुरुभिः श्रीअभयदेवसूरिभिः 'तस्स फलजोगमंगल' इत्यादिकाः गाथाः श्री विशेषावश्यकभाष्यलिखिताः साक्षित्वेन श्रीस्थानाङ्गवृत्तावुपदर्शिताः, मयाऽपि श्रीमलयगिरिविहितटीकापाठो लिखितः, तत्र सामायिकाध्ययनमाश्रित्य सर्वं व्याख्यातम्, अत्र तु श्रीस्थानाङ्गनामोच्चारणेन व्याख्येयमिति तात्पर्यम् । [पृ०८ पं० २६] निक्षेपत्रैविध्यमेव स्पष्टयन्नाह 5 भण्णइ घिप्पइ अ सुहं, निक्खेवपयाणुसारओ सत्थं । ओहो नाम सुत्तं, निक्खेयव्वं तओऽवस्सं ॥१९॥ [विशेषाव०९५७] व्या० यस्मान्नामादिनिक्षेपानुसारतः शास्त्रम् अध्ययनमुद्देशको वा सुखेनैव भण्यते अभिधीयते, सुखेनैव गृह्यते अधिगम्यते, तस्माच्छास्त्रादेः सम्बन्धी ओघो नाम सूत्रं चाऽवश्यमेव निक्षेप्तव्यम्। एतेन यन्निक्षेपस्य पूर्वं सामान्येन त्रैविध्यमुक्तं तदिदानी विशेषतो 10 दर्शितमवगन्तव्यम्, तद्यथा- त्रिविधो निक्षेपः-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति ॥१९।। तत्र ओघः किमुच्यते ? इत्याह[पृ०९ पं०२] ओहो जं सामन्नं, सुआभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं, आओ ज्झवणा य पत्तेयं ॥२०॥ [पृ०९ पं०४] नामादिचउन्भेअं, वन्नेऊणं सुआणुसारेणं । एगट्ठाणं जोजं, चउसुं पि कमेण भावेसुं ॥२१॥[विशेषाव०९५८-९५९] व्या० इह यच्छ्रुतस्य जिनवचनरूपस्य सामान्यम् अङ्गाध्ययनोद्देशकादि नाम तदोघ इत्युच्यते, सामान्यं शास्त्रनामेत्यर्थः । तत्रेह सामायिकस्य प्रस्तुतत्वात्तद्विषयं सामान्यनाम प्राहअध्ययनम् अक्षीणम् आय: क्षपणा चेति । इदं च सामायिकादिशास्त्रविषयस्य सामान्यमध्ययनादिकमभिधानमनुयोगद्वारलक्षणश्रुतानुसारेण प्रत्येकं नामादि चतुर्विधमुपवर्ण्यम्, तद्यथा- 20 नामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं भावाध्ययनम् । तथा नामाक्षीणं स्थापनाक्षीणं द्रव्याक्षीणं भावाक्षीणम् । एवमाय-क्षपणयोरप्युक्त्वा क्रमेण चतुर्ध्वपि भावेषु भावाध्ययने भावाक्षीणे भावाऽऽये भावक्षपणायां चेत्यर्थः । किमित्याह- सामायिकमायोज्यम्, सामायिकमेव भावाध्ययनादिवाच्यत्वेनात्र बोद्धव्यमित्यर्थः ॥२१॥ १. अत्र सर्वत्र लिखितः विशेषावश्यकभाष्यटीकापाठः मलधारिश्रीहेमचन्द्रसूरिविहितटीकानुसार्येव वर्तते, अतो 'मलयगिरि' इति निर्देशः अनवधानेनैव विवरणकाराभ्यां विहित इति भाति ॥ २. ‘सामाइयमाओजं' इति विशेषावश्यकभाष्ये पाठः, किन्तु अत्र ‘एकस्थानस्य' प्रस्तुतत्वात् किञ्चित् शब्दपरिवर्तनं विधाय ‘एगट्ठाणं जोजं' इति अभयदेवसूरिभिरत्र लिखितम् । एवमग्रेऽपि सर्वत्र ज्ञातव्यम् ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy