________________
८ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे एष गणितानुयोगः । दृष्टिवादस्तु द्रव्यानुयोगः । अपृथक्त्वे एकस्मिन् सूत्रे चत्वारोऽनुयोगा आसन्, पृथक्त्वे ते अर्था व्यवच्छिन्ना एक एव स्थित इति गाथार्थः ॥
ननु भावप्रमाणमपि त्रिविधम्- गुणप्रमाणं नयप्रमाणं सङ्ख्याप्रमाणं चेति, तत्र सामायिक क्व समवतरति इत्युच्यते-गुणप्रमाणे । ननु गुणप्रमाणमपि द्विविधम्-जीवगुणप्रमाणम-जीवगुणप्रमाणं 5 च, तत्र प्रस्तुताध्ययनं सामायिकं व समवतरति ? इत्युच्यते-जीवानन्यत्वेन जीवगुणप्रमाणे।
ननु जीवगुणोऽपि त्रिविधः- ज्ञान-दर्शन-चारित्रभेदात्, तत्र व सामायिकस्यावतार: ? उच्यतेबोधात्मकत्वाज्ज्ञानगुणे । ननु ज्ञानमपि प्रत्यक्षा-ऽनुमानोपमाना-ऽऽगमभेदाच्चतुर्विधम्, तत् क्वेदमवतरति ? इत्युच्यते-आगमे । ननु सोऽपि लौकिक-लोकोत्तरभेदाद् द्विविधः, लोकोत्तरोऽपि
सूत्रार्थोभयरूपत्वात् त्रिविध एव, तत् क्वेदं समवतरति ? इत्युच्यते-सूत्रार्थोभयभेदात् त्रिविधेऽपि 10 लोकोत्तरागमे समवतरति, तत्स्वभावत्वात् तत्स्वरूपत्वादित्येतदेवाह[पृ०८ पं०६] जीवाणण्णत्तणओ जीवगुणे बोहभावओ नाणे ।
____ लोकोत्तरसुत्तत्थोभयागमे तस्सभावाओ ॥१६॥ [विशेषाव० ९४७] व्या०- व्याख्याताईव ।
[पृ०८ पं०१८] स्वसमयावतारमेव स्पष्टयन्नाह15 परसमओ उभयं वा, सम्मदिट्ठिस्स ससमओ जेणं ।
तो सव्वज्झयणाई ससमयवत्तव्वनिययाइं ॥१७॥ [विशेषाव०९५३]
व्या०- परसमय उभयसमयो वा सम्यग्दृष्टेः स्वसमय एव, यथावद्विषयविभागेन व्यवस्थापनात् । ततो यद्यपि केषुचिदध्ययनेषु परोभयसमयवक्तव्यताऽपि श्रूयते, तथापि तानि
सर्वाण्यपि स्वसमयवक्तव्यतानियतान्येव, सम्यग्दृष्टिपरिग्रहात् । एतच्च पूर्वमनेकशो भावितमेवेति । 20 समवतारानवतारणे हेतुमाहुः पूर्वाचार्याः[पृ०८ पं०२३] अहुणा य समोयारो, जेण समोयारिअं पइद्दारं ।
___एगट्ठाणमणुगओ, सो लाघवओ ण पुण वच्चो ॥१८॥ [विशेषाव०९५६] व्या०- अधुना समवतारोऽवसरप्राप्तः, चकारो भिन्नक्रमे, तद्यथा- स च लाघवओ त्ति लाघवमाश्रित्य, लाघवार्थमित्यर्थः, अनुगत: पूर्वमेव गतोऽतिक्रान्तः पूर्वमेवाभिहित इत्यर्थः । 25 कथम् ? इत्याह- येन यस्मात् प्रतिद्वारं सामायिकाध्ययनं समवतारितमेव, ततो नेदानीं पुनरपि समवतारो वाच्यस्तद्व्यापारस्याध्ययनसमवतारणलक्षणस्य प्रतिद्वारमनुष्ठितत्वात् । एतदुक्तं भवतिअधुना षष्ठ उपक्रमभेदः समवतारः प्रस्तुतः, स च लाघवार्थं प्रतिद्वारं समवतारितत्वात् पूर्वमेवाभिहित इति न पुनरप्यत्रोच्यते, पौनरुक्त्यप्रसङ्गादिति ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org