________________
प्रथमाध्ययनटीकागतगाथाविवरणम्
चेत्, शिष्यव्यामोहापोहायेत्येतदर्थं मनसि निधाय पूज्यपादा आहुः
मूढनइअं सुअं कालिअं तु न नया समोयरंति इह । अपुहत्ते समोयारो, नत्थि पुहत्ते समोयारो ॥१५॥ [विशेषाव०२२७९]
व्या०- कालिकं श्रुतं मूढनयिकम्, मूढा नयाः नैगमादयः सप्त यत्र तद् मूढनयिकम्। कालिके श्रुते नया मूढा वर्तन्ते, इह कालिकश्रुते न नया: समवतरन्ति, अतो नयप्रमाणे 5 इदं न समवतरति । अपृथक्त्वे नयानां समवतारः । कालिके श्रुते चत्वारोऽनुयोगाः पूर्वमासन्, एकस्मिन् सूत्रव्याख्याने चरण-धर्मकथा-गणित-द्रव्यप्रधानाः चत्वारोऽप्यनुयोगाः प्रदर्श्यन्ते, यदा आर्यरक्षितेन ग्रहण-धारणाहानि ज्ञात्वा अनुयोगः पृथक्कृतः, भिन्ने भिन्ने श्रुते स्थापितः, तदानीं नयानां समवतारो नास्ति ।
श्रुतं कालिकं मूढनयिकम्, येन प्रज्ञापको मुह्यति, एतैः सर्वैर्नयैरवतार्य द्रव्यं व्याख्यातुं 10 न शक्नोतीति भणितं भवति, अतो नयप्रमाण इदं न समवतरति, यदा अपृथक्त्वं आसीत्तदा एकस्मिन्ननुयोगे चत्वारोऽप्यनुयोगाः प्ररूप्यन्ते, पृथक्त्वे कृते सति प्रत्येकं भाष्यन्ते, ते अर्थास्तत्र व्यवच्छिन्नाः, यदा चरणानुयोगो व्याख्यायते तदा अन्ये त्रयोऽनुयोगा न भाष्यन्ते । एवं शेषेष्वपि भावनीयम् । कदा पुनः पृथक्त्वं जातम् ? कियच्चिरं कालं अपृथक्त्वमासीत् ? यावदार्यवज्रस्वामिनः तावदपृथक्त्वमासीत्, तेषामारतः पृथक्त्वं जातम् । पूर्वमार्यवज्रस्वामिपार्श्वे 15 आर्यरक्षितेन नव पूर्वाणि सम्पूर्णान्यधीतानि, ‘दशमपूर्वपठने समुद्राद् बिन्दुरधीतः' इति गुरोर्वचनं श्रुत्वा अवसन्नः, स्वस्मिन्नेव दशमपूर्वव्यवच्छेदं ज्ञात्वा श्रीवज्रस्वामिभिरनशनं चक्रे, तत आर्यरक्षितसूरयः स्वगच्छे अर्थवाचनां ददति । तस्मिन् गच्छे चत्वारो जनाः सन्तिदुर्बलिकापुष्प:१ विन्ध्यः२ फल्गुरक्षितः३ गोष्ठामाहिलश्च ४ । तन्मध्ये विन्ध्योऽतीव मेधावी, सूत्रार्थतभयग्रहणसमर्थो महत्यामर्थमण्डल्यां विषीदति, ततः स आचार्यैर्भण्यते-किमर्थं 20 विषीदसि ? तेनोक्तम्- स्वामिन् ! सर्वाऽर्थमण्डली चालयितुं न शक्यते । आचार्यैरुक्तम्
ओम्। ततो विन्ध्यस्य दुर्बलिकापुष्पो वाचनाचार्यो दत्तः । कतिभिर्दिनैर्दुर्बलिकापुष्प उपस्थितो वक्ति- स्वामिन् ! मम श्रुतं नश्यति। यच्च स्वज्ञातगृहे नानुप्रेक्षितं तच्च शङ्कितं जातम् । यद्यहमेतस्य वाचनां दद्मि ततो मम नवमपूर्वं विस्मरिष्यति । तत आर्यरक्षितैश्चिन्तितं यदि तावदेतस्य परममेधाविन एवं कुर्वतः श्रुतं नश्यति, तद्यन्येषामल्पमेधसां नष्टमेव । तत उपयोगं 25 गताः, तैश्च ग्रहण-धारणादुर्बलत्वं ज्ञात्वा चत्वारि अनुयोगद्वाराणि कृतानि सुखगुणनधारणानिमित्तम्। कानि पुनस्तानि ? एकादशाङ्गानि सबाहिराङ्गानि यच्च महाकल्पश्रुतादि तत् चरण-करणानुयोगः । ऋषिभाषितान्युत्तराध्ययनानि, तच्च धर्मानुयोगः । चन्द्रप्रज्ञप्तिस्सूरप्रज्ञप्तिश्च,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org