________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे [पृ०७ पं०१] द्वारक्रममेव सविस्तरव्याख्यानाय गाथाद्वयेनाह भाष्यकार:दारक्कमोऽयमेव उ, निक्खिप्पइ जेण नासमीवत्थं । अणुगम्मइ नाऽणत्थं, नाणुगमो नयमयविहूणो ॥११॥ [विशेषाव० ११५]
व्या०- अत्राऽग्रेतना गाथा टीकाकृता नाऽऽनीता, परं भाष्यकारेण गाथायुग्मेनैव 5 द्वारक्रमो व्याख्यातः, अर्थश्च तथैव सङ्गतः, अतस्तत उद्धृत्याऽग्रेकृता सा लिखिता
संबंधोवक्कमओ, समीवमाणीअ नत्थनिक्खेवं । सत्थं तओऽणुगम्मइ, नएहि नाणाविहाणेहिं ॥१२॥ [विशेषाव० ९१६]
व्या०- एषामनुयोगद्वाराणामयमेवोपन्यासक्रमः, येन नासमीपस्थम् अनुपक्रान्तं निक्षिप्यते, न च नामादिभिरनिक्षिप्तमर्थतोऽनुगम्यते, नापि नयमतविकलोऽनुगम इति । यतश्च 10 सम्बन्धरूप उपक्रमः सम्बन्धोपक्रम: तेन सम्बन्धका उपक्रमेण समीपमानीय न्यासयोग्य विधाय न्यस्तनिक्षेपं विहितनाम-स्थापनादिनिक्षेपं सत् शास्त्रं ततोऽर्थतो अनुगम्यते व्याख्यायते नानाविधानैर्नानाभावभेदैर्नयैः, तस्मादयमेवानुयोगद्वारक्रमः इति क्रमप्रयोजनद्वारं समाप्तम्, तत्समाप्तौ च तस्स फलजोगेत्यादि गाथा समाप्तेति ॥१२॥
पृ०७] श्रुतस्य क्षायोपशमिकत्वावतारे भाष्यकृत्सम्मतिमाह15 छव्विहनामे भावे खओवसमिए सुअं समोयरति ।
जं सुअनाणावरणखओवसमजं तयं सव्वं ॥१३॥ [विशेषाव० ९४५]
व्या०- अनुयोगद्वाराध्ययने षड्नाम्न्यौदयिकादयः षड् भावाः पठ्यन्ते । तत्र क्षायोपशमिके भावे सर्वमप्याचारादिश्रुतं समवतरति, यद् यस्मात् सर्वमपि तत् श्रुतं श्रुतज्ञानावरण
कर्मक्षयोपशमादेव जायते, नान्यतः, तस्मात् क्षायोपशमिक एव भावे समवतरति नान्यत्र 20 इत्यर्थादुक्तं भवतीति उक्तं संक्षेपतो नाम ॥१३॥
साम्प्रतं प्रमाणमभिधित्सुराह[पृ०७] दव्वाइ चउन्भेअं, पमीयते जेण तं पमाणंति ।।
इणमज्झयणं भावो त्ति, भावमाणे समोअरति ॥१४॥ [विशेषाव०९४६] व्या० - द्रव्य-क्षेत्र-काल-भावभेदाच्चतुर्विधं प्रमेयम्, प्रमेयचातुर्विध्यात् प्रमाणमपि 25 चतुर्विधम्- द्रव्यप्रमाणं क्षेत्रप्रमाणं कालप्रमाणं भावप्रमाणं चेति, द्रव्यादिकं चतुर्विधं प्रमेयं
प्रमीयतेऽनेनेति कृत्वा । तत्रेदं सामायिकाध्ययनं श्रुतज्ञानविशेषत्वेन जीवपर्यायत्वाज्जीवभावत्वाद् भावप्रमाणे समवतरति ॥१४॥
[पृ०७ पं०२४] 'न तु नयप्रमाणे सम्प्रति' । नन्विदानीमत्र नयाः कथं न समवतार्यन्त इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org