________________
प्रथमाध्ययनटीकागतगाथाविवरणम्
10
तस्सेव य थेजत्थं मज्झिमयं अंतिमं पि तस्सेव । अव्वोच्छित्तिनिमित्तं सिस्स-पसिस्साइवंसस्स ॥६॥ [विशेषाव० १४]
व्या० तस्यैव शास्त्रस्य प्रथममङ्गलकरणानुभावादविघ्नेन परं पारमुपगतस्य स्थैर्यार्थं स्थिरताऽऽपादनार्थं मध्यममङ्गलम्, निर्दिष्टमिति वर्तते । अंतिमं पीति अन्त्यमपि मङ्गलं तस्यैव शास्त्रार्थस्य मध्यममङ्गलसामर्थ्येन स्थिरीभूतस्याऽव्यवच्छित्तिनिमित्तम् । कस्य योऽसौ 5 शास्त्रार्थः इत्याह- शिष्य-प्रशिष्यादिवंशस्य, शिष्य-प्रशिष्यादिवंशगतस्येत्यर्थः । शिष्यप्रशिष्यादिवंशे शास्त्रार्थस्याव्यवच्छेदनिमित्तं चरममङ्गलमिति भावः ॥६॥
[पृ०३] नोआगमओ भावो, सुविसुद्धो खाइयाइओ । [विशेषाव० ४९] व्या०- नोआगमतो भावो भावमङ्गलं सुविशुद्धः क्षायिकादिकः ॥ [पृ०४] नामं ठवणा दविए, खेत्तद्धा-उद-उवरती-वसही ।
संजम-पग्गह-जोहे, अचल-गणण-संधणा-भावे॥७॥ [आचा०नि०१८४] व्या०- नामं ठवणा इति गाथा टीकाकृता व्याख्यातत्वादुपेक्षितेति ॥७॥ [पृ०५] नामंगं ठवणंगं, दव्वंगं चेव होइ भावंगं ।
एसो खलु अंगस्सा निक्खेवो चउव्विहो होइ॥८॥ [उत्त०नि० १४४] व्या०- नामंगमिति गाथाऽपि टीकाकृता व्याख्यातत्वात् सुगमत्वाच्चोपेक्षितेति ॥८॥ 15 [पृ०६] अनुयोगशब्दार्थं विस्तरार्थाभिधित्सया गाथाद्वयेन भाष्यकृदाह
अणुजोअणमणुजोगो सुअस्स निअएण जमभिधेएणं ।
वावारो वा जोगो जो अणुरूवोऽणुकूलो वा ॥९॥ [पृ०६] अहवा जमत्थओ थोव-पच्छभावेहि सुअमणुं तस्स ।
अभिधेये वावारो जोगो तेणं व संबंधो ॥१०॥ [विशेषाव०१३८६-१३८७] 20 व्या०- यत् सूत्रस्य निजेनाभिधेयेनार्थेन अनुयोजनं सम्बन्धनं सोऽनुयोगः, अथवा योगो व्यापार उच्यते, ततश्च अनुरूपोऽनुकूलो वा घटमानः सम्बध्यमानो व्यापार: प्रतिपादनलक्षणो योग: सूत्रस्य निजे अभिधेये व्यापारः, यथा घटशब्देन घटोऽभिधीयत इत्यनुयोगः । अथवा सूत्रम् अणु इत्युच्यते, कुतः ? यस्मादर्थस्यानन्तत्वात् तदपेक्षया सूत्रमणु। अथवा 'उप्पन्ने इ वा' इत्यादितीर्थकरोक्तार्थात् पश्चादेव गणधराः सूत्रं कुर्वन्ति, इतरकवयोऽपि 25 अर्थं हृदये निवेश्य ततः काव्यं कुर्वन्तीत्येवम् अर्थात् पश्चादेव भवनात् सूत्रम् अनु व्यपदिश्यते। ततस्तस्य अणोः सूत्रस्य अभिधेये व्यापारो योगोऽणुयोगः, तेन वाऽणुना यः सूत्रेण सह अभिधेयस्य योग: सम्बन्धोऽणुयोग इति गाथाद्वयार्थः ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org