________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
नैगमादिभेदाद् नयाः सप्तविधा इत्यादि । उपक्रमणमुपक्रमः, निक्षेपणं निक्षेप इत्यादि निरुक्तं च शब्दव्युत्पत्तिरूपं भणनीयम् । तथा क्कम त्ति तेषामुपक्रमादिद्वाराणां प्रथममुपक्रम एव ततो यथाक्रमं निक्षेपादय एवेत्येवंरूपो योऽसौ नियतः क्रमः स युक्त्यभिधानतो निर्देष्टव्यः । युक्तिं चात्रैव वक्ष्यति, तद्यथा- नानुपक्रान्तं निक्षिप्यते, नानिक्षिप्तमनुगम्यते । तथोपक्रमादिद्वाराणामेव 5 प्रयोजनं शास्त्रोपकाररूपं नगरदृष्टान्तेन वाच्यम्, यथा सप्राकारं महानगरं किमप्यकृतद्वारं लोकस्यानाश्रयणीयं भवति, एकादिद्वारोपेतमपि दुःखनिर्गम-प्रवेशं जायते, चतुर्द्वारोपेतं तु सर्वजनाभिगमनीयं सुखनिर्गम-प्रवेशं च सम्पद्यते, एवं शास्त्रमप्युपक्रमादिचतुर्द्वारयुक्तं सुबोधं सुखचिन्तन-धारणादिसम्पन्नं च भवतीति । एवमुपक्रमादिद्वाराणां सुखावबोधादिरूपः शास्त्रोपकारः प्रयोजनमिह वक्ष्यत इति भावः । भेदश्च निरुक्तं च क्रमश्च प्रयोजनं चेति द्वन्द्वं कृत्वा पश्चात् 10 तेषामुपक्रमादिद्वाराणां भेद-निरुक्त-क्रम- प्रयोजनानीत्येवं षष्ठीतत्पुरुषसमासो विधेयः । चः समुच्चये । वाच्यानीति यथायोगमर्थतः सर्वत्र योजितमेवेति द्वारगाथासङ्क्षेपार्थः ॥१॥ [पृ०२] तिवरिसपरियागस्स उ आयारपकप्पनाममज्झयणं ।
चउवरिसस्स उ सम्मं सूअगडं नाम अंगं ति ॥ २ ॥
दस- कप्प - ववहारा, संवच्छरपणगदिक्खि अस्सेव ।
ठाणं समवाओ वि अ, अंगे ते अट्ठवासस्स ॥३॥ [ पञ्चवस्तु० ५८२-३ ] व्या० - तिवरिसेति गाथाद्वयं पञ्चस्थानके एतदधिकारे व्याख्यास्यते ||२|| ३ || [पृ०३ पं०६] मङ्गलोपदर्शने महाग्रन्थसम्मतिमाह
15
20
25
४
बहुविग्घाई सेयाई, तेण कयमंगलोवयारेहिं ।
घेत्तव्वो सो सुमहानिहि व्व जह वा महाविजा ||४|| [विशेषाव० १२]
व्या० - श्रेयांसि बहुविघ्नानि भवन्ति महतामपि [ ] इति वचनाद् येन बहुविघ्नानि श्रेयांसि भवन्ति तेन कारणेन परमश्रेयोरूपत्वात् कृतमङ्गलोपचारैरेव स योगो ग्रहीतव्यः । किंवद् इत्याह-- शोभनमहारत्नादिनिधिवद् महाविद्यावद्वेति गाथार्थः ॥४॥
[पृ०३ पं०१०] क्व पुनस्तद् मङ्गलं शास्त्रस्येष्यते इत्याहतं मंगलमाईए, मज्झे पज्जंतए अ सत्थस्स ।
पढमं सत्थऽत्थाविग्घपारगमणाय निहिं ||५|| [विशेषाव० १३]
व्या०- तद् मङ्गलं शास्त्रस्याऽऽदौ क्रियते, तथा मध्ये पर्यन्ते चेति । अथैकैकस्य करणफलमाह - प्रथमं मङ्गलं तावच्छास्त्रार्थस्याविघ्नेन पारगमनाय निर्दिष्टम् ॥५॥ [पृ०३ पं०१२] शेषमङ्गलद्वयफलं प्रचिकटयिषुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org