________________
प्रथमाध्ययनटीकागतगाथाविवरणम्
शिक्षा-प्राकृत-कोष-सूक्तललिता गाथाः सहस्रात् पराः । सूत्रालापकमुद्रितार्थविवृतौ तत्साक्षिभूताः धृताः,
प्रायस्ताः कठिनास्तदर्थविवृतौ टीकां विना दुर्घटाः ॥९॥ युग्मम् ।। तदुपायश्च-- गच्छे खरतरे दीप्ता जिनचन्द्रयतीश्वराः ।
युगप्रधानबिरुदास्तेषां शिष्या हि वाचकाः ॥१०॥ नाम्ना सुमतिकल्लोला विद्यासागरपारगाः । श्रीपूज्यप्रथमः शिष्यो गणिः सकलचन्द्रकः ॥११॥ शिष्यस्तस्य कलादक्षो य: कूर्चालसरस्वती । महोपाध्यायबिरुदः क्रिया-ज्ञानसमन्वितः ॥१२॥ वाणीविश्रान्तरसो नाम्ना समयसुन्दरः । शिष्यस्तस्य विशेषज्ञो वादीन्द्रो हर्षनन्दनः ॥१३॥ सुधीः सुमतिकल्लोलो वाचको हर्षनन्दनः ।
पूर्वोल्लिखितगाथानामर्थस्ताभ्यां प्रकाश्यते ॥१४॥ पञ्चभिः कुलकम् ॥ इह तावदभीष्टकर्मणो निर्विघ्नपरिसमाप्त्यर्थं मङ्गलमाचरणीयम्, तत्तु टीकाकृता स्वयमेवाऽऽचरितमिति नेह प्रतन्यते ।
15 [पृ०२] फलादिद्वारनिरूपणे महापुरुषप्रणीतमहाग्रन्थान्तरसम्मतिमाह
तस्स फल-जोग-मंगल-समुदायत्था तहेव दाराई ।
तब्भेअ-निरुत्त-कम-पओअणाई च वच्चाई ॥१॥ [विशेषाव० २] व्या०- तस्येति प्रारब्धशास्त्रानुयोगस्य प्रेक्षावतां प्रवृत्तिनिमित्तं फलं मोक्षप्राप्तिलक्षणं तावदत्र ग्रन्थे वक्तव्यम् । ततोऽस्य योग: शिष्यप्रदानेऽवसरः प्रस्तावो वाच्यः । प्रारब्धशास्त्रानुयोगे 20 च क्रियमाणे किं मङ्गलमित्येतदपि निरूपणीयम् । ततस्समुदायार्थो वाच्यः । समुदायः 'तंत्र तिष्ठन्ति आसते' इत्येतदारभ्य ‘स्थानाङ्गम्' इत्यन्तः समुदायार्थष्टीकाकृता परमगुरुणा व्याख्यात एव, सोऽप्यत्र ग्रन्थेऽभिधानीयः । फलं च योगश्च मङ्गलं च समुदायार्थश्चेति इतरेतरसमासः । तहेव दाराई ति तथैव द्वाराणि चोपक्रम-निक्षेपादीनि कथनीयानि । तेषां द्वाराणां भेदस्तद्भेदो वक्तव्यः । तद्यथा- आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-ऽर्थाधिकार-समवतारभेदादुपक्रमः षोढा, 25
ओघनिष्पन्न-नामनिष्पन्न-सूत्रालापकनिष्पन्नभेदाद् निक्षेपस्त्रिधा, सूत्र-नियुक्तिभेदादनुगमो द्विधा, १. यत्र पृ० पं० इति लिखितं भवेत् तत्र अनेन सहैवात्र मुद्रितस्य अभयदेवसूरिविरचितटीकासहितस्य स्थानाङ्गसूत्रस्य पृष्ठाङ्कः पङ्क्त्य कश्च ज्ञेयः ।। २. तुलना- वि०भा०मलधारि० । अत्र गाथाविवरणे यत्र यत्र विशेषावश्यकभाष्यगाथानां व्याख्यानं लिखितं तत्र सर्वत्र प्रायो मलधारिश्रीहेमचन्द्रसूरिविरचितां विशेषावश्यकभाष्यव्याख्यामनुसृत्यैव लिखितमिति ध्येयम् ॥ ३. दृश्यतां पृ०५ पं०१७-२१ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org