________________
वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे
अंबा मायाबीजं विमलकमलाबीजमिलितं त्रिदेवतद्बीजं विसहरफुलिंगाख्यसहितम् । ॐकाराद्यं ह्रीं श्रीं नम इति तु पदं मन्त्रमनघं मया ध्येयं प्रारिप्सितकरणपर्यन्तमनिशम् ॥२॥ पाशांकायु[प?]र्युपास्तिं विसृजति नितरां स्थापना पार्श्वनेतुः श्री पार्थो यक्षराजो भविकजनमनोवाञ्छिते प्रातिहार्यम् । सान्निध्यं सिद्धपीठे विषधरविषनिर्नाशकोऽसौ विधत्ते वैरोट्या दुःखजातं विघटयति सदा सेवकानां जनानाम् ॥३॥ कीनाशो मम्मणो यन्नवमणिवपुषः पार्श्वनाथस्य बिम्बं पाताले पन्नगेन्द्रो दशरथतनयो रत्नराशेः प्रतीरे । सिद्धायां द्वारकायां यदुकुलतिलको दुष्टकष्टाभि[भू]त्यै कान्तीपुर्यां सपुत्रो नगरजनमुखः पूजयामास पूर्वम् ॥४॥ श्रीसेढीतटिनीतटप्रकटितप्रोत्तुङ्गपुष्पावलि[भ्रा]जत्किंशुकपादपस्थुडतले नागार्जुनः श्रावकः । कोटीवेधरसोपदेशनविधौ श्री पादलिप्तप्रभोः प्राप्याऽऽम्नायबलं तदेव सकलं बिम्बं व्यवस्थापयत् ॥५॥ युग्मम् ॥ पद्मावतीवाग्विहितप्रसादो, द्विकत्रिसङ्ख्येयनवीनवाक्यैः । तपस्विराजोऽभयदेवसूरिस्तदेव बिम्बं प्रकटीचकार ॥६॥ आचार्यश्रेणिमुख्यः खरतरगणभृद्देवतादत्तमन्त्रस्तद्विम्बस्नात्रनीरव्यपगतकठिनव्याधिकुष्ठप्रदाहः । द्रोणाचार्योपदेशानिजगुरुचरणामर्शनिश्चिन्तितार्थः श्री स्थानाङ्गस्य टीकां व्यरचयदतुलां सम्प्रदायैकमूलाम् ॥७॥ युग्मम् ॥ कर्मग्रन्थ-बहुप्रकीर्णक-बृहन्नियुक्ति-भाष्योत्तराः, देवेन्द्रस्तव-सद्विशेषणवती-प्रज्ञप्ति-कल्पाश्रयाः । अङ्गोपाङ्गक-मूलसूत्रमिलिताः षट्त्रिंशिका-सप्ततिश्लिष्यत्सङ्ग्रहणीसमप्रकरणाः पञ्चाशिकासंस्थिताः ॥८॥
सिद्धप्राभृत-सम्मतिप्रकरण- ज्योतिष्क-सङ्गीतक१. 'नगरश्रेष्ठी धनेश्वरनामा इत्यर्थः' इति टिप्पने ॥
तत्र
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org