SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितायां स्थानाङ्गसूत्रटीकायामुद्धृतानां गाथानां वाचनाचार्यश्री सुमतिकल्लोलगणि-वादीन्द्रश्री हर्षनन्दनगणिसंकलितं विवरणम् । ॐ अहँ नमो वीतरागाय । स्वस्तिश्रीवृत्तिमन्तं सहृदयहृदयस्वर्णपात्रोपविष्टं लोकालोकप्रकाशप्रकटितपटुताकेवलज्ञानतैलम् । प्रत्यूहव्यूहसङ्ख्यामितशलभपरिप्लोषनिश्शेषतोषं श्री पार्श्व दीप्रदीपं धवलगुणमनोमन्दिरे धारयामि ॥१॥ *. अत्रेदमादाववधेयम्- आचार्यप्रवरैः श्रीमदभयदेवसूरिभिः वैक्रमे ११२० तमे वर्षे स्थानाङ्गसूत्रटीका विरचिता, तत्र च तैः विभिन्नेषु स्थलेषु प्रसङ्गानुरूपाः परःशताः पाठाः ग्रन्थान्तरेभ्यः उद्धृताः । पूर्वापरसम्बन्धावलोकनं तद्विवरणावलोकनं च विना तेषां सम्यगावगमोऽस्मादृशां दुष्करः । एतदर्थमस्माभिः टिप्पनेषु किञ्चित् प्रयतितम्। ___एतमेवार्थं मनसिकृत्य विक्रमसंवत् १७०५ तमे वर्षे खरतरगच्छीयेन वाचकसुमतिकल्लोलेन वाचकेन हर्षनन्दनेन च सम्भूय स्थानाङ्गटीकायामुद्धृतानां गाथानां विवरणं तांस्तान् मूलग्रन्थान् तद्विवरणानि च दृष्ट्वा महता महता परिश्रमेण तेषां पाठान् क्वचिदक्षरश उद्धृत्य क्वचिच्च तेषां सारभागं गृहीत्वा यथायोग संकलितमस्ति। क्वचित् स्वमत्यापि उत्प्रेक्ष्य विवरण ताभ्यामकारि, एतादृशं स्वमत्युत्प्रेक्षितं विवरण क्वचित् मिथ्यापि वर्तते। किञ्चान्यत्, यान् हस्तलिखितान् ग्रन्थानवलोक्य तद्विवरणं ताभ्यां लिखितं त एव तेषां समक्षं विद्यमाना हस्तलिखितादर्शा यदि अशुद्धा भवेयुः तर्हि अस्मिन् विवरणेऽपि ता अशुद्धयः आगच्छेयुरेव ।। ___ अपि च, श्रीअभयदेवसूरिभिः तेषां समक्षं विद्यमानेभ्यो ग्रन्थेभ्यो यादृशाः पाठा उद्धृताः ततः क्वचिद् भिन्ना अपि पाठाः तद्विवरणकाराणां मलधारिश्रीहेमचन्द्रसूरिप्रभृतीनां समक्षमासन्, अतः अभयदेवसूरिविरचितटीकायाम् उद्भूताः पाठाः अत्र संगृहीताश्च विवरणपाठा यदि क्वचित् क्वचिद् भिन्ना दृष्टिपथमवतरेयुस्तर्हि व्यामोहो न कार्यः।। वाचकसमतिकल्लोल-वाचकहर्षनन्दनसंकलितस्य स्थानाइटीकागतगाथाविवरणस्य हस्तलिखिता आदर्शाः 'पाटण-लींबडी-सुरत-छाणी-वडोदरा' इति पञ्चसु स्थानेषु सन्तीति श्रूयते । छाणी मध्ये १७१ ग्रन्थाङ्के, वडोदरानगरे हंसविजयलायब्रेरीमध्ये ४७ ग्रन्थाङ्के, सुरतनगरे जैनानन्दपुस्तकालये १६०७ ग्रन्थाङ्के वर्तते। तत्र पाटणनगरे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरै ६८९६ ग्रन्थाङ्के विद्यमानः १-४०० पत्रेषु लिखितः आदर्शः अस्मत्सविधे वर्तते। लींबडीस्थहस्तलिखित-जैनज्ञानभण्डार-सूचीपत्रानुसारेण ४३२ ग्रन्थाङ्के विद्यमानः १३६७ पत्रात्मकः विक्रमसंवत् १७१४ वर्षे लिखित आदर्शोऽपि अस्मत्सविधे वर्तते । पाटणनगरस्थ आदर्शः अतीव अतीव अशुद्धः। ततो लींबडीनगरस्थः किञ्चित् समीचीनतरः, तथापि तत्रापि प्रभूताः पाठा अशुद्धाः खण्डिताश्च वर्तन्ते । अन्ये त्वादर्शा अस्माभिर्न दृष्टाः । अशुद्धपाठानामाकररूपोऽयं गाथाविवरणस्य हस्तलिखितो ग्रन्थ इति तत्तन्मूलग्रन्थानुसारेण यथायोग संशोध्यैवात्र मुद्रित इति ध्येयम् ।। ___ वाचकश्रीसुमतिकल्लोल-हर्षनन्दनसंकलितगाथाविवरणस्य हस्तलिखितावादी तदनुसारेण केनचिद् विहिता प्रतिलिपिश्च [Copy] आचार्यश्रीविजयप्रद्युम्नसूरिभिः मुनिचन्द्रसूरिभ्यो दत्ताः, मुनिचन्द्रसूरीणां सकाशाच्च मया लब्धाः । मुनिचन्द्रसूरि: मदीयमातुलपुत्रस्य तपस्विप्रवरमुनिश्रीजिनचन्द्रविजयस्य पुत्रः शिष्यश्च । तेन महता परिश्रमेण प्रयत्नेन च प्रतिलिप्यां संशोधनादिकं विहितमासीत्। एतच्च मम महत् सहायक संजातमस्ति । अतो मम भ्रातृव्यः आचार्यश्रीमुनिचन्द्रसूरिः भृशं धन्यवादार्हः । आचार्यश्रीप्रद्युम्नसूरयोऽपि अत्र संस्कारं कृतवन्त इति तेऽपि सुतरां सुतरां धन्यवादार्हाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy