________________
प्रथमाध्ययनटीकागतगाथाविवरणम्
उवघा २३ कुविहयगई २४, थावरदसगेण होंति चोत्तीसा ३४ । सव्वाओ मिलियाओ, बासीती पावपगईओ ॥७२॥ [ प्रवचनसारो०१२८७-१२८९]।। व्या० ज्ञानावरणपञ्चकम्, अन्तरायपञ्चकम्, दर्शनावरणनवकम्, सम्यक्त्व - - मिश्र उदयमेव केवलमाश्रित्याऽशुभे, न बन्धमपि, तयोर्बन्धासम्भवात्, अतस्तद्वर्जं मोहनीयस्य षड्विंशतिः प्रकृतयः, असातं नरकायुष्कं नीचैर्गोत्रं चेत्येता अष्टचत्वारिंशत् प्रकृतयः । नरकद्विकं 5 नरकगतिनरकानुपूर्वीस्वरूपम्, तिर्यद्विकं तिर्यग्गतितिर्यगानुपूर्वीलक्षणम्, जातिचतुष्कम् एकेन्द्रियद्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियजातिलक्षणम्, पञ्च संहनानि प्रथमवर्जानि, संस्थानान्यप्याद्यवर्णान पञ्च, वर्णादिचतुष्कमप्रशस्तम्, तत्र वर्णौ नील- कृष्णौ, गन्धो दुरभिः, रसौ तिक्त कटुकौ, स्पर्शाश्च– गुरु-खर-रुक्ष-शीतरूपा इति, उपघातः, कुत्सिता चाप्रशस्तविहायोगतिः, स्थावरदशकं च स्थावर-सूक्ष्मा-ऽपर्याप्त-साधारणा-ऽस्थिरा -ऽशुभ- दुर्भग- दुःस्वरा-ऽनादेया- ऽयशः कीर्त्तिलक्षणम्, 10 एताश्चतुस्त्रिंशन्नामकर्मप्रकृतयः, मिलिताश्च सर्वा द्व्यशीतिः पापप्रकृतयोऽशुभसञ्ज्ञाः प्रकृतय इत्यर्थः । वर्णादिचतुष्कं हि शुभप्रकृतिसङ्ख्यायामशुभप्रकृतिसङ्ख्यायां च परिगृह्यते, तस्य द्विधा सम्भवात्, अतो बन्धोक्ताया विंशत्युत्तरशतलक्षणसङ्ख्याया न व्याघात इति गाथाकदम्बार्थः ॥
[पृ० २९] पुण्यकर्मफलस्वीकारदृष्टान्ते पापकर्मफलस्वीकारमप्युररीकारयन्नाह - कम्मप्पगरिसजणिअं, तदवस्सं पगरिसाणुभूईओ ।
सोक्खप्पगरिसभूई, जह पुन्नप्पगरिसप्पभवा ॥ ७३|| [विशेषाव० १९३१] व्या० तद् दुःखं प्रकर्षानुभूतितोऽतिशयानुभवात् अवश्यं कर्मप्रकर्षजनितं तदनुरूपपापकर्मजनितम्, यत इति गम्यते, सौख्यप्रकर्षानुभूतिर्यथा पुण्यप्रकर्षप्रभवा त्वयाऽङ्गीक्रियते तथा दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्मप्रभवैव भविष्यतीति स्वीकुर्वित्यर्थः ।। 20 [पृ०२९] आश्रवभेदान्नामत आह
इंदिअ ५ कसाय ४ अव्वय ५, किरिया २५ पण - चउर-पंच - पणवीसा ॥ जोगा तिन्नेव भवे, आसवभेया उ बायाला ॥७४॥ [नवतत्त्वप्र० ९] व्या० आश्रवभेदास्तु द्विचत्वारिंशत्, आश्रवन्ति आगच्छन्ति कर्माणि येभ्यस्ते आश्रवाः, महासरोवरे जलमार्गा इव, तद्भेदानाह - इन्द्रियाणि पञ्च, स्पर्शन - रसना - प्राण- चक्षुः - श्रोत्ररूपाणि, 25 कषायाश्चत्वारः क्रोध-मान- माया - लोभरूपाः, अव्रतानि पञ्च प्राणातिपात - मृषावादा-ऽदत्तादानमैथुन - परिग्रहरूपाणि, क्रियाश्च पञ्चविंशति:
१. देवगुप्तसूरिविरचिते नवतत्त्वप्रकरणे 'बायालं आसवो होइ' इति पाठः ॥
Jain Education International
२७
For Private & Personal Use Only
15
www.jainelibrary.org