________________
२९८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे द्वैधीभावमापन्नः एवमिदं न वैवमितिमतिकः, कलुषसमापन्नो नैतदेवमितिप्रतिपत्तिकः, ततश्च निर्ग्रन्थानामिदं नैर्ग्रन्थं प्रशस्तं प्रगतं प्रथमं वा वचनमिति प्रवचनम् आगमः, दीर्घत्वं प्राकृतत्वात, न श्रद्धत्ते सामान्यतो न प्रत्येति न प्रीतिविषयीकरोति नो
रोचयति न चिकीर्षाविषयीकरोति तमिति य एवंभूतस्तं प्रव्रजिताभासं परिषह्यन्त इति 5 परीषहाः क्षुदादयः अभियुज्य अभियुज्य सम्बन्धमुपगत्य प्रतिस्पर्द्धय वा अभिभवन्ति
न्यक्कुर्वन्तीति, शेषं सुगमम् ।। ___ उक्तविपर्ययसूत्रं प्राग्वत्, किन्तु हितम् अदोषकरमिह परत्र चात्मनः परेषां च पथ्यानभोजनवत्, सुखम् आनन्दस्तृषितस्य शीतलजलपान इव, क्षमम् उचितं
तथाविधव्याधिव्याघातकौषधपानमिव, निःश्रेयसं निश्चितं श्रेयः प्रशस्यं भावतः 10 पञ्चनमस्कारकरणमिव, अनुगामिकम् अनुगमनशीलं भास्वरद्रव्यजनितच्छायेवेति ।
_ [सू० २२४] एगमेगा णं पुढवी तिहिं वलएहिं सव्वओ समंता संपरिक्खित्ता, तंजहा-घणोदधिवलएणं, घणवातवलएणं, तणुवायवलएणं ।
[टी०] अयं चैवंविधः साधुरिहैव पृथिव्यां भवतीत्यर्थेन सम्बन्धेन पृथिवीस्वरूपमाहएगमेगेत्यादि, एकैका पृथ्वी रत्नप्रभादिका सर्व्वतः, किमुक्तं भवति ? समन्तात्, 15 अथवा दिक्षु विदिक्षु चेत्यर्थः, सम्परिक्षिप्ता वेष्टिता, आभ्यन्तरं घनोदधिवलयं ततः
क्रमेणेतरे, तत्र घनः स्त्यानो हिमशिलावत् उदधिः जलनिचयः, स चासौ स चेति घनोदधिः, स एव वलयमिव वलयं कटकं घनोदधिवलयम्, तेन, एवमितरे अपि, नवरं घनश्चासौ वातश्च तथाविधपरिणामोपेतो घनवातः, एवं तनुवातोऽपि तथाविधपरिणाम एवेति, भवन्त्यत्र गाथाः20 न वि य फुसंति अलोगं चउसुं पि दिसासु सव्वपुढवीओ।
संगहिया वलयेहिं विक्खंभं तेसि वोच्छामि ॥ छच्चेव १ अद्धपंचम २ जोयण अद्धं च ३ होइ रयणाए। उदही १ घण २ तणुवाया ३ जाहासंखेण निद्दिट्टा ॥
तिभागो १ योजनस्य, गाउयं चेव २ तिभागो गाउयस्स य ३ । 25 आइधुवे पक्खेवो अहो अहो जाव सत्तमिय ॥ [बृहत्सं० २४३-२४५] त्ति ।
१. जोयणं अद्धं खं० । 'जोयणमद्धं' इति बृहत्स् पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org