SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २९६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे __ बालपंडितमरणे तिविहे पन्नत्ते, तंजहा-ठितलेस्से, असंकिलिट्ठलेस्से, अपजवजातलेस्से ४॥ [टी०] अनन्तरं लेश्या उक्ताः, अधुना तद्विशेषितमरणनिरूपणायाह- तिविहेत्यादि सूत्रचतुष्टयम्, बाल: अज्ञः, तद्वद् यो वर्त्तते विरतिसाधकविवेकविकलत्वात् स बाल: 5 असंयतः, तस्य मरणं बालमरणम्, एवमितरे, केवलं पडिधातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफलेन फलवद्विज्ञानसंयुक्तत्वात् पण्डितो बुद्धतत्त्वः, संयत इत्यर्थः, तथा अविरतत्वेन बालत्वाद्विरतत्वेन च पण्डितत्वाद् बालपण्डितः संयतासंयत इति। स्थिता अवस्थिता अविशुध्यन्त्यसक्लिश्यमाना च लेश्या कृष्णादिर्यस्मिन् तत् स्थितलेश्यम्, सक्लिष्टा सक्लिश्यमाना सङ्क्लेशमागच्छन्तीत्यर्थः, सा लेश्या 10 यस्मिंस्तत्तथा, तथा पर्यवा: पारिशेष्याद्विशुद्धिविशेषाः प्रतिसमयं जाता यस्यां सा तथा, विशुद्ध्या वर्द्धमानेत्यर्थः, सा लेश्या यस्मिंस्तत्तथेति । अत्र प्रथमं कृष्णादिलेश्यः सन् यदा कृष्णादिलेश्येष्वेव नारकादिषूत्पद्यते तदा प्रथमं भवति, यदा तु नीलादिलेश्यः सन् कृष्णादिलेश्येषूत्पद्यते तदा द्वितीयम्, यदा पुनः कृष्णलेश्यादिः सन् नील कापोतलेश्येषूत्पद्यते तदा तृतीयम् । उक्तं चान्त्यद्वयसंवादि भगवत्यां यदुत15 से णूणं भंते ! कण्हलेसे नीललेसे जाव सुक्कलेसे भवित्ता काउलेसेसु नेरइएसु उववज्जइ ?, हंता, गोयमा !, से केणट्टेणं भंते ! एवं वुच्चइ ?, गोयमा ! लेसाठाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु वा काउलेस्सं परिणमइ २ काउलेसेसु नेरइएसु उववज्जइ [भगवती० १३।१।२९-३०] त्ति । एतदनुसारेणोत्तरसूत्रयोरपि स्थितलेश्यादिविभागो नेय इति । पण्डितमरणे सक्लिश्यमानता लेश्याया नास्ति संयतत्वादेवेत्ययं बालमरणाद्विशेषः । 20 बालपण्डितमरणे तु सक्लिश्यमानता विशुध्यमानता च लेश्याया नास्ति, मिश्रत्वादेवेत्ययं विशेष इति । एवं च पण्डितमरणं वस्तुतो द्विविधमेव, सक्लिश्यमानलेश्यानिषेधे अवस्थित-वर्द्धमानलेश्यत्वात् तस्य, त्रिविधत्वं तु व्यपदेशमात्रादेव, बालपण्डितमरणं त्वेकविधमेव, सक्लिश्यमानपर्यवजातलेश्यानिषेधे अवस्थितलेश्यत्वात् तस्येति, त्रैविध्यं त्वस्येतरव्यावृत्तितो व्यपदेशत्रयप्रवृत्तेरिति । 25 [सू० २२३] ततो ठाणा अव्ववसितस्स अहिताते असुभाते अखमाते १. “पडि गतौ” - पा० धा० २८१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy