SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २९४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे शास्त्रादिति शास्त्रभेदेन तद्भेदानाह- तिविहे अंते इत्यादि, अमनमधिगमनमन्तः परिच्छेदः, तत्र लोको लोकशास्त्रं तत्कृतत्वात् तदध्येयत्वाच्चार्थशास्त्रादिः तस्मादन्तो निर्णयस्तस्य वा परमरहस्यं पर्यन्तो वेति लोकान्त:, एवमितरावपि, नवरं वेदा ऋगादयः ४, समया जैनादिसिद्धान्ता इति । 5 [सू० २२०] ततो जिणा पन्नत्ता, तंजहा-ओहिणाणजिणे, मणपज्जवणाणजिणे, केवलणाणजिणे १। __ ततो केवली पन्नत्ता, तंजहा-ओहिनाणकेवली, मणपज्जवनाणकेवली, केवलनाणकेवली २। तओ अरहा पन्नत्ता, तंजहा-ओहिनाणअरहा, मणपज्जवनाणअरहा, 10 केवलनाणअरहा ३॥ [टी०] अनन्तरं समयान्त उक्तः, समयश्च जिन-केवल्यर्हच्छब्दवाच्यैरुक्तः सम्यग् भवतीति जिनादिशब्दवाच्यभेदानभिधातुं त्रिसूत्रीमाह- तओ जिणेत्यादि, सुगमा, नवरं राग-द्वेष-मोहान् जयन्तीति जिनाः सर्वज्ञाः, उक्तं च रागो द्वेषस्तथा मोहो जितो येन जिनो ह्यसौ।। 15 अस्त्री-शस्त्रा-ऽक्षमालत्वादहन्नेवानुमीयते ॥ [ ] इति । तथा जिना इव ये वर्तन्ते निश्चयप्रत्यक्षज्ञानतया तेऽपि जिनाः, तत्रावधिज्ञानप्रधानो जिनोऽवधिजिनः, एवमितरावपि, नवरमाद्यावुपचरितावितरो निरुपचारः, उपचारकारणं तु प्रत्यक्षज्ञानित्वमिति, केवलम् एकमनन्तं पूर्णं वा ज्ञानादि येषामस्ति ते केवलिनः, उक्तं च20 कसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरित्तणाणी तम्हा ते केवली होति ॥ [आव० नि० १०९२] त्ति । इहापि जिनवद् व्याख्या, अर्हन्ति देवादिकृतां पूजामित्यर्हन्तः, अथवा नास्ति रहः प्रच्छन्नं किञ्चिदपि येषां प्रत्यक्षज्ञानित्वात्ते अरहसः, शेषं प्राग्वत् । [सू० २२१] तओ लेसाओ दुब्भिगंधाओ पन्नत्ताओ, तंजहा-कण्हलेसा, 25 णीललेसा, काउलेसा १। तओ लेसाओ सुब्भिगंधाओ पन्नत्ताओ, तंजहा १. ऋग्वेदादयः खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy