________________
[सू० २१८-२१९] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२९३ सुध्यातम्, अनुप्रेक्षणाऽभावे तत्त्वानवगमेनाऽध्ययन-श्रवणयोः प्रायोऽकृतार्थत्वादिति, अनेन भेदद्वयेन श्रुतधर्म उक्तः, तथा सुष्ठ इहलोकाद्याशंसारहितत्वेन तपसितं तपस्यानुष्ठानं सुतपसितमिति च चारित्रधर्म उक्त इति, त्रयाणामप्येषामुत्तरोत्तरतोऽविनाभावं दर्शयतिजया इत्यादि व्यक्तम्, परं निर्दोषाध्ययनं विना श्रुतार्थाप्रतीतेः सुध्यातं न भवति, तदभावे ज्ञानविकलतया सुतपसितं न भवतीति भावः, यदेतत् स्वधीतादित्रयं भगवता 5 वर्द्धमानस्वामिना धर्मः प्रज्ञप्त: से त्ति स स्वाख्यातः सुष्ठुक्तः सम्यग्ज्ञानक्रियारूपत्वात्, तयोश्चैकान्तिकात्यन्तिकसुखावन्ध्योपायत्वेन निरुपचरितधर्मत्वात्, सुगतिधारणाद्धि धर्म इति, उक्तं च
नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्हं पि समाओगे मोक्खो जिणसासणे भणिओ ॥ [आव० नि० १०३] त्ति । 10 णमिति वाक्यालङ्कारे । [सू० २१८] तिविधा वावत्ती पन्नत्ता, तंजहा-जाणू, अजाणू, वितिगिच्छा। एवमज्झोवजणा, परियावज्जणा ।
[टी०] सुतपसितमिति चारित्रमुक्तम्, तच्च प्राणातिपातादिविनिवृत्तिस्वरूपमिति तस्या भेदानाह– तिविहेत्यादि, व्यावर्त्तनं व्यावृत्तिः, कुतोऽपि हिंसाद्यवधेर्निवृत्तिरित्यर्थः, 15 सा च या ज्ञस्य हिंसादेर्हेतु-स्वरूप-फलविदुषो ज्ञानपूर्विका व्यावृत्तिः सा तदभेदात् जाणु त्ति गदिता, या त्वज्ञस्याज्ञानात् सा अजाणू इत्यभिहिता, या तु विचिकित्सातः संशयात् सा निमित्त-निमित्तिनोरभेदाद्विचिकित्सेत्यभिहिता । व्यावृत्तिरित्यनेनाऽऽन्तरं चारित्रमुक्तं तद्विपक्षश्चाशुभाध्यवसाया-ऽनुष्ठाने इति तयोरधुना भेदानतिदेशत आहएवमित्यादिसूत्रे, एवमिति व्यावृत्तिरिव त्रिधा अज्झोवज्जण त्ति अध्युपपदनं 20 क्वचिदिन्द्रियार्थे अध्युपपत्तिरभिष्वङ्ग इत्यर्थः, तत्र जानतो विषयजन्यमनर्थं या तत्राध्युपपत्तिः सा जाणू, या त्वजानतः सा अजाणू, या तु संशयवतः सा विचिकित्सेति, परियावज्जण त्ति पर्यापदनं पर्यापत्तिरासेवेति यावत्, साऽप्येवमेवेति । [सू० २१९] तिविधे अंते पन्नत्ते, तंजहा-लोगंते, वेयंते, समयंते । [टी०] जाणु त्ति ज्ञः, स च ज्ञानात् स्यादित्युक्तम्, ज्ञानं चातीन्द्रियार्थेषु प्रायः 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org