________________
२९२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ज्ञानर्द्धिर्विशिष्टश्रुतसम्पत्, दर्शनर्द्धिः प्रवचने निःशङ्कितादित्वं प्रवचनप्रभावकशास्त्रसम्पद्वा, चारित्रर्द्धिनिरतिचारता ६ । सचित्ता शिष्यादिका, अचित्ता वस्त्रादिका, मिश्रा तथैवेति ७ । इह च विकुर्वणादिऋद्धयोऽन्येषामपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोक्ता इति । 5 [सू० २१५] ततो गारवा पन्नत्ता, तंजहा-इडीगारवे रसगारवे सातगारवे।
[टी०] ऋद्धिसद्भावे च गौरवं भवतीति तद्भेदानाह- तओ गारवेत्यादि व्यक्तम्, परं गुरोर्भावः कर्म वेति गौरवम्, तच्च द्वेधा द्रव्यतो वज्रादेर्भावतोऽभिमानलोभलक्षणाशुभभावत आत्मनः, तत्र भावगौरवं त्रिधा, तत्र ऋद्ध्या नरेन्द्रादिपूजालक्षणया
आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवम् ऋद्धिगौरवम्, ऋद्धिप्राप्त्यभिमाना10 ऽप्राप्तप्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवमित्यर्थः, एवमन्यत्रापि, नवरं रसो रसनेन्द्रियार्थो मधुरादिः, सातं सुखमिति, अथवा ऋद्ध्यादिषु गौरवमादर इति ।
[सू० २१६] तिविधे करणे पन्नत्ते, तंजहा-धम्मिते करणे, अधम्मिए करणे, धम्मिताधम्मिते करणे ।
[टी०] अनन्तरं चारित्रर्द्धिरुक्ता, चारित्रं च करणमिति तद्भेदानाह- तिविहेत्यादि, 15 कृतिः करणमनुष्ठानम्, तच्च धार्मिकादिस्वामिभेदेन त्रिविधम्, तत्र धार्मिकस्य
संयतस्येदं धार्मिकमेवमितरे, नवरमधार्मिकः असंयतः, तृतीयो देशसंयतः । अथवा धर्मे भवं धर्मो वा प्रयोजनमस्येति धार्मिकम्, विपर्यस्तमितरत्, एवं तृतीयमपीति।
[सू० २१७] तिविहे भगवता धम्मे पन्नत्ते, तंजहा-सुअधिजिते सुज्झातिते सुतवस्सिते । जया सुअधिज्जितं भवति तदा सुज्झातियं भवति, जया 20 सुज्झातितं भवति तदा सुतवस्सितं भवति । से सुअधिज्जिते सुज्झातिते सुतवस्सिते सुतक्खाते णं भगवता धम्मे पण्णत्ते ।
[टी०] धार्मिककरणमनन्तरमुक्तम्, तच्च धर्म एवेति तद्भेदानाह- तिविहेत्यादि स्पष्टम्, केवलं भगवता महावीरेणेत्येवं जगाद सुधर्मस्वामी जम्बूस्वामिनं प्रतीति,
सुष्ठ काल-विनयाद्याराधनेनाऽधीतं गुरुसकाशात् सूत्रतः पठितं स्वधीतम्, तथा सुष्ठ 25 विधिना तत एव व्याख्यानेनाऽर्थतः श्रुत्वा ध्यातम् अनुप्रेक्षितम्, श्रुतमिति गम्यम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org