________________
[सू० २१४] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२९१ [टी०] अनन्तरमभिसमागम उक्त:, स च ज्ञानम्, तच्चर्द्धिरिहैव वक्ष्यमाणत्वादिति ऋद्धिसाधर्म्यात् तद्भेदानाह- तिविहा इड्डी इत्यादिसूत्राणि सप्त सुगमानि, नवरं देवस्य इन्द्रादेरृद्धिः ऐश्वर्यं देवर्द्धिः, एवं राज्ञ: चक्रवर्त्यादेर्गणिनो गणाधिपतेराचार्यस्येति १। विमानानां विमानलक्षणा वा ऋद्धिः समृद्धिः, द्वात्रिंशल्लक्षादिकं बाहुल्यं महत्त्वं रत्नादिरमणीयत्वं चेति विमानर्द्धिः, भवति च द्वात्रिंशल्लक्षादिकं सौधर्मादिषु 5 विमानबाहुल्यम्, यथोक्तम्बत्तीस अट्ठवीसा बारस अट्ठ य चउरो सयसहस्सा । आरेण बंभलोगा विमाणसंखा भवे एसा ॥ पंचास चत्त छच्चेव सहस्सा लंत-सुक्क-सहसारे । सय चउरो आणय-पाणएसु तिन्नारण-ऽच्चुयए ॥ एक्कारसुत्तरं हेटिमेसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥ [बृहत्सं० ११७-११९] इति ।
उपलक्षणं चैतत् भवन-नगराणामिति । वैक्रियकरणलक्षणा ऋद्धिक्रियर्द्धिः, वैक्रियशरीरैर्हि जम्बूद्वीपद्वयमसङ्ख्यातान् वा द्वीप-समुद्रान् पूरयन्तीति, उक्तं च भगवत्याम्- चमरे णं भंते ! केमहिडिए जाव केवतियं च णं पभू विउव्वित्तए ?, गोयमा! 15 चमरे णं जाव पभू णं केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहि य देवीहि य आइन्नं जाव करेत्तए, अदुत्तरं च णं गोयमा ! पभू चमरे जाव तिरियमसंखेजे दीव-समुद्दे बहूहिं असुरकुमारेहिं आइन्ने जाव करित्तए, एस णं गोयमा ! चमरस्स ३ अयमेयारूवे विसयमेत्ते बुइए, नो चेव णं संपत्तीए विउव्विंसु ३, एवं सक्के वि दो केवलकप्पे जंबुद्दीवे दीवे जाव आइन्ने करेज्ज [भगवती० ३।१।३,१५] त्ति । परिचारणा कामासेवा, तदृद्धिः अन्यान् 20 देवानन्यसत्का देवीः स्वकीया देवीरभियुज्यात्मानं च विकृत्य परिचारयतीत्येवमुक्तलक्षणेति २ । सचित्ता स्वशरीरा-ऽग्रमहिष्यादिसचेतनवस्तुसम्पत्, अचेतना वस्त्राऽऽभरणादिविषया, मिश्रा अलङ्कृतदेव्यादिरूपा ३ । अतियानं नगरप्रवेशः, तत्र ऋद्धिः तोरण-हट्टशोभा-जनसम्म दिलक्षणा, निर्याणं नगरान्निर्गमः, तत्र ऋद्धिः हस्तिकल्पन-सामन्तपरिवारणादिका, बलं चतुरङ्गम्, वाहनानि वेगसरादीनि, कोशो 25 भाण्डागारम्, कोष्ठा धान्यभाजनानि, तेषामगारं गेहं कोष्ठागारं धान्यगृहमित्यर्थः, तेषां तान्येव वा ऋद्धिर्या सा तथा ४ । सचित्तादिका पूर्ववद् भावनीयेति ५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.