________________
[सू० २११-२१२] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२८९ त्ति कायेनेत्यर्थः, सकारागमः प्राकृतत्वादेव, त्रिभिरपि करणैरित्यर्थः, अथवा स्वमनसेत्यादि, प्रधारयन् पर्यालोचयन्, क्वचित्तु पागडेमाणे त्ति पाठस्तत्र प्रकटयन् व्यक्तीकुर्वन्नित्यर्थः । यथा श्रमणस्य तथा श्रमणोपासकस्यापि त्रीणि निर्जरादिकारणानीति दर्शयन्नाह- तिहीत्यादि कण्ठ्यम् ।
[सू० २११] तिविहे पोग्गलपडिघाते पन्नत्ते, तंजहा-परमाणुपोग्गले 5 परमाणुपोग्गलं पप्प पडिहम्मेजा, लुक्खत्ताते वा पडिहम्मेजा, लोगंते वा पडिहम्मेजा।
[टी०] अनन्तरं. कर्म निर्जरोक्ता, सा च पुद्गलपरिणामविशेषरूपेति पुद्गलपरिणामविशेषमभिधातुमाह- तिविहेत्यादि, पुद्गलानाम् अण्वादीनां प्रतिघातो गतिस्खलनं पुद्गलप्रतिघात:, परमाणुश्चासौ पुद्गलश्च परमाणुपुद्गल: स तदन्तरं प्राप्य 10 प्रतिहन्येत गतेः प्रतिघातमापद्येत, रूक्षतया वा तथाविधपरिणामान्तरात् गतित: प्रतिहन्येत, लोकान्ते वा, परतो धर्मास्तिकायाभावादिति ।
[सू० २१२] तिविहे चक्खू पन्नत्ते, तंजहा-एगचक्खू, बिचक्खू, तिचक्खू। छउमत्थे णं मणुस्से एगचक्खू, देवे बिचक्खू, तहारूवे समणे वा माहणे वा उत्पन्ननाणदंसणधरे से णं तिचक्खु त्ति वत्तव्वं सिता ।
[टी०] पुद्गलप्रतिघातं च चक्षुरेव जानातीति तन्निरूपणायाह- तिविहेत्यादि प्राय: कण्ठ्यम्, चक्षुः लोचनम्, तद् द्रव्यतोऽक्षि भावतो ज्ञानम्, तद्यस्यास्ति स तद्योगाच्चक्षुरेव, चक्षुष्मानित्यर्थः, स च त्रिविधः चक्षुःसङ्ख्याभेदात्, तत्रैकं चक्षुरस्येत्येकचक्षुरेवमितरावपि । छादयतीति छद्म ज्ञानावरणादि, तत्र तिष्ठतीति छद्मस्थ:, स च यद्यप्यनुत्पन्नकेवलज्ञान: सर्व एवोच्यते तथापीहातिशयवत्श्रुतज्ञानादिवर्जितो 20 विवक्षित इति एकचक्षुः चक्षुरिन्द्रियापेक्षया । देवो द्विचक्षुः चक्षुरिन्द्रिया-ऽवधिभ्याम् । उत्पन्नमावरणक्षयोपशमेन ज्ञानं च श्रुता-ऽवधिरूपं दर्शनं च अवधिदर्शनरूपं यो धारयति वहति स तथा, य एवंभूत: स त्रिचक्षुः चक्षुरिन्द्रिय-परमश्रुता-ऽवधिभिरिति वक्तव्यं स्यात्, स हि साक्षादिवावलोकयति हेयोपादेयानि समस्तवस्तूनि, केवली त्विह
15
१. च सचक्षुरेव जे१ विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org