________________
[सू० २०९]
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
गति: मानुषत्वादिका, तत्रेहलोकस्य प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पञ्चाग्नितपस्विवदिहलोकप्रत्यनीकः परलोको जन्मान्तरं तत्प्रत्यनीकः इन्द्रियार्थतत्परः, द्विधालोकप्रत्यनीकश्चौर्यादिभिरिन्द्रियार्थसाधनपरः । यद्वा इहलोकप्रत्यनीक इहलोकोपकारिणां भोगसाधनादीनामुपद्रवकारी इहलोकप्रत्यनीकः, एवं ज्ञानादीनामुपद्रवकारी परलोकप्रत्यनीकः, उभयेषां तु 5 द्विधालोकप्रत्यनीक इति । अथवेहलोको मनुष्यलोकः, परलोको नारकादिः, उभयमेतदेव द्वितयम्, प्रत्यनीकता तु तद्वितथप्ररूपणेति । कुलं चान्द्रादिकम्, तत्समूहो गणः कोटिकादिः, तत्समूहः सङ्घ इति, प्रत्यनीकता चैतेषाम् अवर्णवादादिभिरिति, कुलादिलक्षणं चेदम्
एत्थ कुलं विनेयं गायरियस्स संतई जा उ । तिह कुलाण मिहो पुण सावेक्खाणं गणो होइ ॥ सव्वो वि नाण - दंसण- चरणगुणविभूसियाण समणाणं । समुदाय पुण संघ गुणसमुदाओ त्ति काऊणं ॥ [ ]
मोक्खाहिगारियाणं जोइसजोणीहि किं कज्जं ? ॥
"
अनुकम्पाम् उपष्टम्भं प्रतीत्य आश्रित्य । तपस्वी क्षपकः, ग्लानो रोगादिभिरसमर्थः, शैक्ष: अभिनवप्रव्रजितः, एते ह्यनुकम्पनीया भवन्ति, तदकरणाकारणाभ्यां च 15 प्रत्यनीकतेति। भावः पर्यायः, स च जीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तः क्षायिकादि:, अप्रशस्तो विवक्षयौदयिकः, क्षायिकादिश्च ज्ञानादिरूप:, ततो भावं ज्ञानादिं प्रतीत्य प्रत्यनीकस्तेषां वितथप्ररूपणतो दूषणतो वा, यथापाययसुत्तनिबद्धं को वा जाणइ पणीय केणेयं ? ।
किं वा चरणेणं तू दाणेण विणा उ किं हवइ ॥ [ त्ति । सूत्रं व्याख्येयमर्थः तद्व्याख्यानं निर्युक्त्यादिस्तदुभयं द्वितयमिति, तत्प्रत्यनीकता– काया वया य ते च्चिय. ते चेव पमाय अप्पमाया य ।
Jain Education International
२८७
For Private & Personal Use Only
10
[ बृहत्कल्प० १३०३]
इत्यादि दूषणोद्भावनमिति ।
[सू० २०९ ] ततो पितियंगा पन्नत्ता, तंजहा - अट्ठी अट्ठिमिंजा केस-मंसु - 25
रोम - नहे १ |
१. दृश्यतां पृ० २८६ टि०१ ॥
20
www.jainelibrary.org