________________
२८४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
दुविहो होइ अचेलो असंतचेलो य संतचेलो य । तत्थ असंतेहिं जिणा संताऽचेला भवे सेसा ॥ सीसावेढियपोत्तं नइउत्तरणम्मि नग्गयं बेंति ।
जुन्नेहिं नग्गियऽम्हि तुर सालिय ! देहि मे पोत्तिं ॥ 5 जुन्नेहिं खंडिएहिं असव्वतणुपाउएहिं ण य णिच्चं ।
संतेहि वि णिग्गंथा अचेलया होंति चेलेहिं ॥ [बृहत्कल्प० ६३६५-६३६७) इत्यादि । तथा पूर्वपर्यायच्छेदेनोपस्थापनीयम् आरोपणीयं छेदोपस्थापनीयम्, व्यक्तितो महाव्रतारोपणमित्यर्थः, तच्च प्रथम-पश्चिमतीर्थयोरेवेति, शेषा व्युत्पत्तिस्तथैव,
तत्स्थितिश्चोक्तलक्षणेष्वेव दशसु स्थानकेष्ववश्यपालनलक्षणेति, तथाहि10 दसठाणठिओ कप्पो पुरिमस्स य पच्छिमस्स य जिणस्स । एसो धुयरयकप्पो दसठाणपइट्ठियो होइ ॥ त्ति । आचेल १ कुद्देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जे? ७ पडिक्कमणे ८ मासं ९ पजोसवणकप्पे १० ॥ [बृहत्कल्प० ६३६३-४] त्ति।
निर्विशमाना ये परिहारविशुद्धितपोऽनुचरन्ति, परिहारिका इत्यर्थः, तेषां कल्पे 15 स्थितिर्यथा ग्रीष्म-शीत-वर्षाकालेषु क्रमेण तपो जघन्यं चतुर्थ-षष्ठा-ऽष्टमानि मध्यम
षष्ठादीनि उत्कृष्टमष्टमादीनीति, पारणे चायाममेव, पिण्डैषणासप्तके चाद्ययोरेग्रह एवेति, पञ्चसु पुनरेकया भक्तमेकया च पानकमित्येवं द्वयोरभिग्रह इति, उक्तं च
बारस १ दस २ अट्ठ ३ दस १ ४ २ छ? ३ अट्ठेव १ छ? २ चउरो य ३ ।
उक्कोस-मज्झिम-जहन्नगा उ वासा-सिसिर-गिम्हे ॥ [बृहत्कल्प० ६४७२] 20 पारणगे आयामं पंचसु गहो दोसऽभिग्गहो भिक्खे [ ] त्ति ।
निर्विष्टा आसेवितविवक्षितचारित्राः, अनुपरिहारिका इत्यर्थः, तत्कल्पस्थितिर्यथा प्रतिदिनमायाममात्रं तपो भिक्षा तथैवेति, उक्तं च-कप्पट्ठिया वि पइदिण करेंति एमेव चायाम [ ] ति । एते च निर्विशमानका निर्विष्टाश्च परिहारविशुद्धिका उच्यन्ते, तेषां च नवको गणो भवति, ते च एवंविधा:१. पारणं जेसं१ विना ॥ २. रग्रह एव पंचसु पा० जे२ ॥ ३. सामाइयं च पढमं..... ॥११४॥ इति आवश्यकनियुक्तिगाथाया हारिभद्र्यां वृत्तौ निर्दिष्टासु परिहारविशुद्धिचारित्रवर्णनपरासु नवसु गाथासु चतुर्थीयं गाथा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org