________________
[सू० २०६] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२८३ दिति । स्वयम्भूरमणो महान् सुमेरोरारभ्य तस्य शेषसर्वद्वीप-समुद्रेभ्यः समधिकप्रमाणत्वात्, तेषां तस्य च क्रमेण किञ्चिन्न्यूनाधिकरज्जुपादप्रमाणत्वादिति । ब्रह्मलोकस्तु महान्, तत्प्रदेशे पञ्चरज्जुप्रमाणत्वात् लोकविस्तरस्य, तत्प्रमाणतया च विवक्षितत्वात् ब्रह्मलोकस्येति ।
[सू० २०६] तिविधा कप्पट्ठिती पन्नत्ता, तंजहा-सामाइयकप्पट्टिती, 5 छेदोवट्ठावणियकप्पद्विती, निव्विसमाणकप्पट्टिती १॥
अहवा तिविहा कप्पट्टिती पन्नत्ता, तंजहा-णिव्विट्ठकप्पट्टिती, जिणकप्पट्टिती, थेरकप्पट्टिती २।।
[टी०] अनन्तरं ब्रह्मलोककल्प उक्त इति कल्पशब्दसाधर्म्यात् कल्पस्थितिं त्रिधाऽऽह तिविहेत्यादि सूत्रद्वयं व्यक्तम्, केवलं समानि ज्ञानादीनि, तेषामायो लाभ: समाय:, 10 स एव सामायिकं संयमविशेषः, तस्य तदेव वा कल्प: करणमाचारः, यथोक्तम्सामर्थ्य वर्णनायां च, करणे छेदने तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ॥ [ ] इति सामायिककल्पः, स च प्रथम-चरमतीर्थयोः साधूनामल्पकाल:, छे दोपस्थापनीयस्य सद्भावात्, मध्यतीर्थेषु महाविदेहेषु च यावत्कथिकः, 15 छेदोपस्थापनीयाभावात्, तदेवं तस्य तत्र वा स्थिति: मर्यादा सामायिककल्पस्थितिः, सा च शय्यातरपिण्डपरिहारे चतुर्यामपालने पुरुषज्येष्ठत्वे बृहत्पर्यायस्येतरेण वन्दनकदाने च नियमलक्षणा, शुक्लप्रमाणोपेतवस्त्रापेक्षया यदचेलत्वं तत्र १ तथा आधाकर्मिकभक्ताद्यग्रहणे २ राजपिण्डाग्रहणे ३ प्रतिक्रमणकरणे ४ मासकल्पकरणे ५ पर्युषणकल्पकरणे ६ चाऽनियमलक्षणा चेति, अत्रोक्तम्
सिज्जायरपिंडे या १ चाउज्जामे य २ पुरिसजेट्टे य २ । किइकम्मस्स य करणे ४ चत्तारि अवट्ठिया कप्पा ॥ आचेल १ कुद्देसिय २ सपडिक्कमणे य ३ रायपिंडे य ४ । मासं ५ पज्जोसवणा ६ छप्पेयणवट्ठिया कप्पा ॥ [बृहत्कल्प० ६३६१-६२]
तत्राचेलकत्वमेवम्१. स्वयंभुर जे१ ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org