________________
२८२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे नंदीसरो य ८ अरुणो ९ अरुणावाओ य १० कुंडलवरो य ११ । तह संख १२ रुयग १३ भुयवर १४ कुस १५ कुंचवरो १६ तओ दीवो ॥
[बृहत्सं० ८२-८३] । इति क्रमापेक्षया एकादशे कुण्डलवराख्ये द्वीपे प्राकारकुण्डलाकृति: कुण्डलवर 5 इति, तद्रूपमिदम्
कुंडलवरस्स मज्झे णगुत्तमो होति कुण्डलो सेलो । पागारसरिसरूवो विभयंतो कुण्डलं दीवं ॥ बायालीससहस्से उव्विद्धो कुंडलो हवइ सेलो । एगं चेव सहस्सं धरणियलमहे समोगाढो ॥ दस चेव जोयणसए बावीसे वित्थडो य मूलम्मि । सत्तेव जोयणसए बावीसे वित्थडो मज्झे ॥ चत्तारि जोयणसए चउवीसे वित्थडो उ सिहरतले । [द्वीपसागर० ७२-७५] त्ति । तथा त्रयोदशे रुचकवराख्ये द्वीपे कुण्डलाकृती रुचक इति, एतस्य त्विदं स्वरूपम्रुयगवरस्स उ मज्झे नगुत्तमो होति पव्वओ रुयगो । पागारसरिसरूवो रुयगं दीवं विभयमाणो । रुयगस्स उ उस्सेहो चउरासीतिं भवे सहस्साइं । एगं चेव सहस्सं धरणियलमहे समोगाढो ॥ दस चेव सहस्सा खलु बावीसा जोयणाण बोधव्वा ।
मूलम्मि उ विक्खंभो साहीओ रुयगसेलस्स ॥ [द्वीपसागर० ११२-११४] 20 तथा मध्यविस्तारोऽस्य सप्त सहस्राणि द्वाविंशत्यधिकानि, शिरोविस्तारस्तु चत्वारि
सहस्राणि चतुर्विंशत्यधिकानीति । __ मानुषोत्तरादयो महान्त उक्ता इति महदधिकारादतिमहत आह- तओ महतीत्यादि व्यक्तम्, केवलमतिमहान्तश्च ते आलयाश्च आश्रया: अतिमहालयाः, महान्तश्च
तेऽतिमहालयाश्चेति महातिमहालया:, अथवा 'लय' इत्येतस्य स्वार्थिकत्वात् 25 महातिमहान्त इत्यर्थः, द्विरुच्चारणं च महच्छब्दस्य मन्दरादीनां सर्वगुरुत्वख्यापनार्थम्,
अव्युत्पन्नो वाऽयमतिमहदर्थे वर्त्तत इति । मंदरेसु त्ति मेरूणां मध्ये जम्बूद्वीपकस्य सातिरेकलक्षयोजनप्रमाणत्वाच्छेषाणां चतुर्णां सातिरेकपञ्चाशीतियोजनसहस्रप्रमाणत्वा१. तेवीसे इति द्वीपसागरप्रज्ञप्तौ ।।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org