________________
[सू० २०५] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२८१ __ श्रुतदानस्यायोग्या उक्ता:, इदानीं सम्यक्त्वस्याप्ययोग्यानाह- तओ इत्यादि कण्ठ्यम्, किन्तु दुःखेन कृच्छ्रेण संज्ञाप्यन्ते प्रज्ञाप्यन्ते बोध्यन्त इति दुःसंज्ञाप्या:, तत्र दुष्टो द्विष्टः तत्त्वं प्रज्ञापकं वा प्रति, स चाऽप्रज्ञापनीयः, द्वेषेणोपदेशाप्रतिपत्तेः, एवं मूढो गुण-दोषानभिज्ञः, व्युद्ग्राहित: कुप्रज्ञापकदृढीकृतविपर्यास:, सोऽप्युपदेशं न प्रतिपद्यते, उक्तं च
पुव्वं कुग्गाहिया केई, बाला पंडियमाणिणो । नेच्छंति कारणं सोउं, दीवजाए जहा णरे ॥ [बृहत्कल्प० ५२२४] त्ति ४।
एतेषां स्वरूपं कल्पात् कथाकोशाच्चावसेयमिति । एतद्विपर्यस्तान् सुसंज्ञाप्यतयाऽऽह- तओ इत्यादि स्फुटमिति ।
[सू० २०५] ततो मंडलिया पव्वता पन्नत्ता, तंजहा-माणुसुत्तरे, कुंडलवरे, 10 रुयगवरे ।
ततो महतिमहालया पन्नत्ता, तंजहा-जंबुद्दीवते मंदरे मंदरेसु, सयंभुरमणे समुद्दे समुद्देसु, बंभलोए कप्पे कप्पेसु ।
[टी०] उक्ता: प्रज्ञापनार्हाः पुरुषा:, अधुना तत्प्रज्ञापनीयवस्तूनि त्रिस्थानकावतारीण्याह- तओ मंडलिएत्यादि, मण्डलं चक्रवालम्, तदस्ति येषां ते मण्डलिका: 15 प्राकारवलयवदवस्थिताः, मानुषेभ्यो मानुषक्षेत्राद्वोत्तरः परतोवर्ती मानुषोत्तर इति, तत्स्व रूपं चेदम्
पुक्खरवरदीवड्ढं परिखिवई माणुसुत्तरो सेलो । पायारसरिसरूवो विभयंतो माणुसं लोगं ॥ सत्तरस एगवीसाइं जोयणसयाई सो समुव्विद्धो । चत्तारि य तीसाई मूले कोसं च ओगाढो ॥ दस बावीसाइं अहे वित्थिण्णो होइ जोयणसयाइं । सत्त य तेवीसाइं वित्थिण्णो होइ मज्झम्मि ॥ चत्तारि य चउवीसे वित्थारो होइ उवरि सेलस्स ।
अड्डाइजे दीवे दो य समुद्दे अणुपरीइ ॥ [द्वीपसागर० १-४] त्ति । तथा- जंबूदीवो १ धायइ २ पुक्खरदीवो य ३ वारुणिवरो य ४ ।
खीरवरो वि य दीवो ५ घयवरदीवो य ६ खोयवरो ७ ॥ १. संज्ञाप्यंते बोध्यंत इति दुःसंज्ञाप्याः जे१ । संज्ञ(ज्ञा खंसं०)प्यंते बोध्यंते इति दुःसंज्ञ(ज्ञा खंसं०)प्या: खं०॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org