________________
२८०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे आत्मसमीपे आसयितुं न कल्पन्त इति प्रक्रम इति । __ कथञ्चित् संवासिता अपि वाचनाया अयोग्या: न वाचनीया इति तानाह- तओ इत्यादि सुगमम्, नवरं न वाचनीया: सूत्रं न पाठनीया:, अत एवार्थमप्यश्रावणीया:,
सूत्रादर्थस्य गुरुत्वात्, तत्राऽविनीत: सूत्रार्थदातुर्वन्दनादिविनयरहित:, तद्वाचने हि दोष:, 5 यत उक्तम्
इहरह वि ताव थब्भइ अविणीओ लंभिओ किमु सुएणं ? । मा णट्ठो नासिहिई खए व खारोवसेगो उ ।। गोजूहस्स पडागा सयं पलायस्स वड्डयइ य वेगं ।
दोसोदए य समणं न होइ न नियाणतुल्लं च ॥ [बृहत्कल्प० ५२०१-२] 10 निदानतुल्यमेव भवतीत्यर्थः,
विणयाहीया विजा देइ फलं इह परे य लोयम्मि । न फलंतऽविणयगहिया सस्साणि व तोयहीणाइं ॥ [बृहत्कल्प० ५२०३] ति ।
तथा विकृतिप्रतिबद्धो घृतादिरसविशेषगृद्धः, अनुपधानकारीति भाव:, इहापि दोष एव, यदाह15 अतवो न होइ जोगो न य फलए इच्छियं फलं विजा ।
अवि फलति विउलमगुणं साहणहीणा जहा विजा ॥ [बृहत्कल्प० ५२०६] इति ।
अव्यवशमितम् अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिकं परमक्रोधो यस्य सोऽव्यवंशमितप्राभृतः, उक्तं च
अप्पे वि पारमाणिं अवराहे वयइ खामियं तं च । 20 बहुसो उदीरयंतो अविओसियपाहुडो स खलु ॥ [बृहत्कल्प० ५२०७] त्ति ।
पारमाणिं परमक्रोधसमुद्घातं व्रजतीति भाव:, एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात् प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊषरक्षिप्तबीजवदिति, आह च
दुविहो उ परिच्चाओ इह चोयण कलह १ देवयाछलणं २ । 25 परलोगम्मि अ अफलं खित्तं पि व ऊसरे बीयं ॥ [बृहत्कल्प० ५२०८] ति ।
एतद्विपर्ययसूत्रं सुगमम् । १. 'वसित जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org