SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ [सू० २०४ ] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः । तथा वातोऽस्यास्तीति वातिकः, यदा स्वनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदा न शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु वाहिय त्ति पाठः, तत्र व्याधितो रोगीत्यर्थः। तथा क्लीब: असमर्थ:, स च चतुर्द्धा - दृष्टिक्लीब-शब्दक्लीबा-ऽऽदिग्धक्लीबनिमन्त्रणक्लीबभेदात्, तत्र यस्यानुरागतो विवस्त्राद्यवस्थं विपक्षं पश्यतो मेहनं गलति 5 दृष्टिक्लीब:, यस्य तु सुरतादिशब्दं शृण्वतः स द्वितीयः, यस्तु विपक्षेणावगूढो निमन्त्रितो वा व्रतं रक्षितुं न शक्नोति स आदिग्धक्लीबो निमन्त्रितक्लीबश्चेति, चतुर्विधोऽप्ययं निरोधे नपुंसकतया परिणमतीति, वातिक-क्लीबयोस्तु परिज्ञानं तयोस्तन्मित्रादीनां वा कथनादेरिति, विस्तरश्चात्र कल्पादवसेयः, एते चोत्कटवेदतया व्रतपालनासहिष्णव इति न कल्पन्ते प्रव्राजयितुम्, प्रव्राजकस्याप्याज्ञाभङ्गेन दोषप्रसङ्गादिति, उक्तं चजिणवणे पडिकुट्टं जो पव्वावेइ लोभदोसेणं । चरणट्ठिओ तवस्सी लोवे तमेव उ चरितं ॥ [ निशीथ० ३७४५ ] ति । २७९ इह त्रयोऽप्रव्राज्या उक्ताः त्रिस्थानकानुरोधाद्, अन्यथा अन्येऽपि ते सन्ति, बाले वुढे नपुंसे य जड्डे कीवे य वाहिए । तेणे रायावगारी य उम्मत्ते य अदंसणे ॥ दासे दुट्ठे [य] मूढे [य] अणत्ते जुंगिए इय | ओबद्ध य भयए सेहनिप्फेडिया इय ॥ व्विणी बालवच्छाय पव्वावेउं न कप्पइ ॥ [ निशीथ० ३५०६-८ ]त्ति । अदंसणो अन्धः, अणत्तो ऋणपीडितः, जुंगिओ जात्यङ्गहीन, ओबद्धओ विद्यादायकादिप्रतिजागरकः, सेहणिप्फेडिआ अपहृत इति । एवमित्यादि, यथैते 20 प्रव्राजयितुं न कल्पन्ते एवमेत एव कथञ्चिच्छलितेन प्रव्राजिता अपि सन्तो मुण्डयितुं शिरोलोचेन न कल्पन्ते, उक्तं च Jain Education International For Private & Personal Use Only 10 यदाह पव्वाविओ सियत्ति, यः स्यादितीत्यर्थः, मुंडावेउं अणायरणजोगो । अहवा मुंडाविंते दोसा अणिवारिया पुरिमा || [ तुलना- बृहत्कल्प० ५१९०] इति । एवं शिक्षयितुं प्रत्युपेक्षणादिसामाचारीं ग्राहयितुम्, तथा उपस्थापयितुं महाव्रतेषु 25 व्यवस्थापयितुम्, तथा सम्भोक्तुम् उपध्यादिना, एवमनाभोगात् संभुक्ताश्च संवासयितुम् 15 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy