________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
नावस्थाप्यते नाधिक्रियते इत्यनवस्थाप्यः, तदतिचारजातं तच्छुद्धिरपि वाऽनवस्थाप्यमुच्यत इति नवमं प्रायश्चित्तमिति । तत्र साधर्मिकाः साधवस्तेषां सत्कस्योत्कृष्टोपधि-शिष्यादेर्वा बहुशो वा प्रद्विष्टचित्तो वा तेणं ति स्तेयं चौर्यं कुर्वन् १, तथा अन्यधार्म्मिका: शाक्यादयो गृहस्था वा, तेषां सत्कस्योपध्यादेः स्तेयं 5 कुर्वन्निति २, तथा हस्तेनाऽऽताडनं हस्तातालस्तं दलमाणे ददत्, यष्टि-मुष्टिलकुटादिभिर्मरणादिनिरपेक्ष आत्मनः परस्य वा प्रहरन्निति भाव:, उक्तं च
उक्कोसं बहुसो वा पट्ठचित्तो व तेणियं कुणइ ।
पहरड़ जो य सपक्खे निरवेक्खो घोरपरिणामो ॥ [ ]
अथवा अत्थादाणं दलमाणो त्ति पाठस्तत्र अर्थादानं द्रव्योपादानकारणमष्टाङ्गनिमित्तं 10 तद्ददत् प्रयुञ्जान इत्यर्थः, अथवा हत्थालंबं दलमाणे ति पाठः तत्र हस्तालम्ब व हस्तालम्बस्तं हस्तालम्बं ददत्, अशिव-पुररोधादौ तत्प्रशमनार्थमभिचारकमन्त्र-विद्यादि प्रयुञ्जान इत्यर्थ: ३।
15
20
२७८
25
[सू० २०४ ] ततो णो कप्पंति पव्वावेत्तए, तंजहा - पंडए, वातिए, कीवे १। एवं मुंडावेत्तए २, सिक्खावेत्तए ३, उवट्टावेत्तए ४, संभुंजेत्तए ५, संवासित ६ ।
ततो अवायणिज्जा पन्नत्ता, तंजहा - अविणीते, विगतीपडि बद्धे, अविओसवितपाहडे ।
ततो कप्पंति वातित्तते, तंजहा - विणीते, अविगती पडि बद्धे, विओसवियपाहुडे ।
तओ दुसन्नप्पा पत्ता, तंजहा दुट्ठे, मूढे, वुग्गाहिते । तओ सुसन्नप्पा पत्ता, तंजहा - अदुट्ठे, अमूढे, अवुग्गाहि ।
[0] पूर्वोक्तप्रायश्चित्तं प्रव्राजनादियुक्तस्य भवति, तानि चायोग्यनिरासेन योग्यानां विधेयानीति तदयोग्यान्निरूपयन् सूत्रषट्कमाह- तओ इत्यादि कण्ठ्यम्, किन्तु पण्डकं नपुंसकम्, तच्च लक्षणादिना विज्ञाय परिहर्त्तव्यम्, लक्षणानि चास्य
महिलासहावो १ सर २ वन्नभेओ ३, मेंढं महंतं ४ मउई य वाया ५ । ससद्दगं मुत्तमफेणगं च ६, एयाणि छप्पंडगलक्खणाणि ॥ [ बृहत्कल्प० ५१४४ ] त्ति ।
१. माणो जे१ ।। २. संवसि क० भा० । दृश्यतां सू० ६६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org