________________
२७७
[सू० २०३] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२७७ इह च सूत्रे प्रतिसेवकपाराञ्चिक एव त्रिविध उक्त:, तदुक्तम्
पडिसेवणपारंची तिविहो सो होइ आणुपुव्वीए । दुढे य १ पमत्ते या २ नेयव्वे अन्नमन्ने य ३ ॥ [बृहत्कल्प० ४९८५] तत्र दुष्टो दोषवान् कषायतो विषयतश्च, पुनरेकैको द्वेधा, सपक्ष-विपक्षभेदात्, उक्तं च
दुविहो य होइ दुट्ठो कसायदुट्ठो य विसयदुट्ठो य । दुविहो कसायदुट्ठो सपक्ख-परपक्ख चउभंगो ॥ [बृहत्कल्प० ४९८६] तत्र स्वपक्षे कषायदुष्टो यथा सर्षपनालिकाभिधानशाकभर्जिकाग्रहणकुपितो मृताचार्यदन्तभञ्जकः साधुः, विषयदुष्टस्तु साध्वीकामुकः, तत्र चोक्तम्लिंगेण लिंगिणीए संपत्तिं जो णिगच्छई पावो ।
10 सव्वजिणाणऽज्जाओ संघो वाऽऽसाइतो तेणं ॥ पावाणं पावयरो दिट्ठिप्फासे वि सो न कप्पति तु । जो जिणपुंगवमुई नमिऊण तमेव धरिसेड़ ॥ त्ति । संसारमणवयग्गं जाइ-जरा-मरणवेयणापउरं ।। पावमलपडलछन्ना भमंति मुद्दाधरिसणेणं ॥ [बृहत्कल्प० ५००८-१०] ति । 15 परपक्षकषायदुष्टस्तु राजवधको द्वितीयो राजाग्रमहिष्यधिगन्तेति, उक्तं चजो य सलिंगे दुट्ठो कसाय-विसएहिं रायवहगो य । रायग्गमहिसिपडिसेवओ य बहुसो पयासो य ॥ [ ] प्रमत्त: पञ्चमनिद्राप्रमादवान्, मांसाशिप्रव्रजितसाधुवदिति, अयं च सद्गुणोऽपि त्याज्य इति, आह च
20 अवि केवलमुप्पाडे ण य लिंगं देइ अणइसेसी से । देसवयदंसणं वा गेण्ह अणिच्छे पलायंति ॥ [बृहत्कल्प० ५०२४]
तथा, अन्योन्यं परस्परं मुखपायुप्रयोगतो मैथुनं कुर्वत्, पुरुषयुगमिति शेष:, उच्यते च
आसय-पोसयसेवी के वि मणूसा दुवेयगा होति । तेसिं लिंगविवेगो [बृहत्कल्प० ५०२६] त्ति । आसे वितातिचारविशेष: सन्ननाचरिततपोविशेषस्तद्दोषोपरतोऽपि महाव्रतेषु
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org