SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २७६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे प्रायश्चित्तस्य तद्वतां च प्ररूपणायाह-तिविहेत्यादि सूत्रचतुष्टयं सुगमम्, केवलं नाणेत्यादि, ज्ञानाद्यतिचारशुद्ध्यर्थं यदालोचनादि ज्ञानादीनां वा योऽतिचारस्तत् ज्ञानप्रायश्चित्तादि, तत्राकाला-ऽविनयाध्ययनादयोऽष्टावतिचारा ज्ञानस्य, शकितादयोऽष्टौ दर्शनस्य, मूलगुणोत्तरगुणविराधनारूपा विचित्रा: चारित्रस्येति । अणुग्घाइम त्ति उद्घातो भागपातः, 5 तेन निर्वृत्तमुद्घातिमम्, लघ्वित्यर्थः, यत उक्तम् अद्धेण छिन्नसेसं पुव्वद्धेणं तु संजुयं काउं । देजाहि लहुयदाणं गुरुदाणं तत्तियं चेव ॥ [ ] त्ति ।। भावना- मासोऽर्द्धन छिन्नो जातानि पञ्चदश दिनानि, ततो मासापेक्षया पूर्वं तपः पञ्चविंशतितमं तद सार्द्धद्वादशकं तेन संयुतं मासार्द्धम, जातानि सप्तविंशतिर्दिनानि 10 सार्द्धानीत्येवं कृत्वा यद् दीयते तल्लघुमासदानम्, एवमन्यान्यपि, एतन्निषेधादनुद्घातिमं तपः, गुवित्यर्थः, तद्योगात् साधवोऽपि वा तथोच्यन्ते । हस्तकर्म हस्तेन शुक्रपुद्गलनिर्घातनक्रिया, तत् कुर्वन्, सप्तमी चेयं षष्ठ्या , तेन कुर्वत इति व्याख्येयम्, एतेषां च हस्तकर्मादीनां यत्र विशेषे योऽनुद्घातिमविशेषो दीयते स कल्पादितोऽवसेयः। पारंचिय त्ति पारं तीरं तपसा अपराधस्याऽञ्चति गच्छति ततो दीक्ष्यते य: स पाराञ्ची, 15 स एव पाराञ्चिकः, तस्य यदनुष्ठानं तच्च पाराञ्चिकमिति दशमं प्रायश्चित्तम्, लिङ्गक्षेत्र-काल-तपोभिर्बहिःकरणमिति भाव:, इह च सूत्रे कल्पभाष्य इदमभिधीयते आसायण पडिसेवी दुविहो पारंचिओ समासेणं । एकेक्कंमि य भयणा सचरित्ते चेव अचरित्ते ॥ सव्वचरित्तं भस्सइ केण वि पडिसेविएण उ पएणं । कत्थइ चिट्ठइ देसो परिणामवराहमासज्ज ॥ तुल्लम्मि वि अवराहे परिणामवसेण होइ नाणत्तं । कत्थइ परिणामम्मि वि तुल्ले अवराहनाणत्तं ॥ [बृहत्कल्प० ४९७२-७३-७४] तत्र आशातकपाराञ्चिक: तित्थयरपवयणसुए आयरिए गणहरे मड्डिीए । 25 एते आसायंते पच्छित्ते मग्गणा होइ ॥ [बृहत्कल्प० ४९७५, ५०६०] त्ति । तत्र सव्वे आसायंते पावति पारंचियं ठाणं [बृहत्कल्प० ४९८३] ति । १. हस्तकर्म आगमप्रसिद्धम्, तत् कुर्वन् पा० ख० जे२ ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy