________________
२७०
10
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे इह चाभेदविवक्षया उद्गमदोषा एवोद्गमः, अतस्ते नोद्गमे नो पघात: पिण्डादेरकल्पनीयताकरणं चरणस्य वा शबलीकरणमुद्गमोपघात:, उद्गमस्य वा पिण्डादिप्रसूतेरुपघात: आधाकर्मत्वादिभिर्दष्टता उद्गमोपघातः, एवमितरावपि,
केवलमुत्पादना सम्पादनम्, गृहस्थात् पिण्डादेरुपार्जनमित्यर्थः, तद्दोषा धात्रीत्वादय: 5 षोडश, यदाह
उप्पायण संपायण णिव्वत्तणमो य होंति एगट्ठा । आहारस्सिह पगया तीय य दोसा इमे होंति ॥ [पञ्चाशक० १३।१७, पञ्चव० ७५३] धाई १ दुइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा य ६ । कोहे ७ माणे ८ माया ९ लोभे य १० हवंति दस एए ॥
[पञ्चाशक० १३।१८, पञ्चव० ७५४ पिण्डनि० ४०८] पुव्विं पच्छा संथव ११ विज्जा १२ मंते य १३ चुन्न १४ जोगे य १५ । उप्पायणाए दोसा सोलसमे मूलकम्मे य १६ ॥
पिण्डनि० ४०९, पञ्चा० १३।१९, पञ्चव० ७५५] त्ति । तथा एषणा गृहिणा दीयमानपिण्डादेर्ग्रहणम्, तदोषा: शङ्कितादयो दशेति, 15 आह च
एसणगवेसणन्नेसणा य गहणं च होंति एगट्ठा । आहारस्सिह पगया तीय य दोसा इमे होंति ॥ [पञ्चा० १३।२५, पञ्चव० ७६१] संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७ ।
अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति ॥ __20
[पञ्चा० १३।२६, पञ्चव० ७६२, पिण्डनि० ५२०] इह चसोलस उग्गमदोसा गिहियाओ समुट्ठिए वियाणाहि । उप्पायणाए दोसा साहूओ समुट्ठिए जाण ॥ [पिण्डनि० ४०३] एषणादोषास्तूभयसमुत्था इति । एवमुद्गमादिभिर्दोषैरविद्यमानतया या विशुद्धिः पिण्डचरणादीनां निर्दोषता सा उद्गमादिविशुद्धिरुद्मादीनां वा विशुद्धिर्या सा तथेति, 25 इदमेवातिदिशन्नाह- एवं विसोही । ज्ञानस्य श्रुतस्याराधना कालाध्ययनादिष्वष्टस्वाचारेषु
प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य नि:शङ्कितादिषु, चारित्रस्य समिति-गुप्तिषु, सा चोत्कृष्टादिभेदा भावभेदात् कालभेदाद्वेति । ज्ञानादिप्रतिपतनलक्षण:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org