________________
[सू० १९७] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२६७ तस्मिन् वा, तथा वृक्षस्य करीरादेर्निर्गलस्य मूलम् अधोभागस्तदेव गृहं वृक्षमूलगृहं तस्मिन् वेति। प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थं प्रति तदनुज्ञापनं भवतीत्यनुज्ञापनासूत्रम्एवमिति एतदेव पडिमापडिवन्नेत्याधुच्चारणीयम्, नवरं प्रत्युपेक्षणास्थाने अनुज्ञापन वाच्यमिति । अनुज्ञाते च गृहिणा तस्योपादानमित्युपादानसूत्रम्, तदप्येवमेवेति, ओवाइणित्तए त्ति उपादातुं ग्रहीतुम्, प्रवेष्टमित्यर्थः, एवं संस्तारकसूत्रत्रयमपि, नवरं 5 पृथिवीशिला उवट्टगो त्ति य: प्रसिद्धः, काष्ठं चासौ शिलेवाऽऽयति-विस्तराभ्यां शिला सा चेति काष्ठशिला, यथासंस्तृतमेवेति यत्तृणादि यथोपभोगाईं भवति तथैव यल्लभत इति । [सू० १९७] तिविधे काले पण्णत्ते, तंजहा-तीते, पडुप्पन्ने, अणागते ।
तिविधे समए पन्नत्ते, तंजहा-तीते, पडुप्पन्ने, अणागते । एवं आवलिया 10 आणापाणू थोवे लवे मुहुत्ते अहोरत्ते जाव वाससतसहस्से पुव्वंगे पुव्वे जाव ओसप्पिणी । तिविधे पोग्गलपरियट्टे पन्नत्ते, तंजहा-तीते, पडुप्पन्ने, अणागते ।
[टी०] प्रतिमाश्च नियतकाला भवन्तीति कालं त्रिधाऽऽह- अति अतिशयेनेतो गतोऽतीतः, पिधानवदकारलोपे तीतो, वर्तमानत्वमतिक्रान्त इत्यर्थः, साम्प्रतमुत्पन्न: 15 प्रत्युत्पन्नो वर्तमान इत्यर्थः, न आगतोऽनागतो वर्तमानत्वमप्राप्तः, भविष्यन्नित्यर्थः, उक्तं च
भवति स नामातीत: प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति य: प्राप्स्यति वर्तमानत्वम् ॥ [ ] इति ।
कालसामान्यं त्रिधा विभज्य तद्विशेषांस्त्रिधा विभजयन्नाह- तिविहे समये इत्यादि 20 कालसूत्राणि, समयादयो द्विस्थानकाद्योद्देशकवत् व्याख्येया:, नवरं पोग्गलपरियट्टे त्ति पुद्गलानां रूपिद्रव्याणामाहारकवर्जितानाम् औदारिकादिप्रकारेण ग्रहणत: एकजीवापेक्षया परिवर्त्तनं सामस्त्येन स्पर्श: पुद्गलपरिवर्त्तः, स च यावता कालेन भवति स कालोऽपि पुद्गलपरिवर्तः, स चानन्तोत्सर्पिण्यवसर्पिणीरूप इति, स चेत्थं भगवत्यामुक्त:___ कतिविहे णं भंते ! पोग्गलपरियट्टे पन्नत्ते?, गोयमा ! सत्तविहे पन्नत्ते, तंजहा- 25 १. शिला चेवेति काष्ठशिला जे१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org