SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 5 20 आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [ अथ चतुर्थ उद्देशक: ] [सू० १९६] पडिमापडिवन्नस्स णं अणगारस्स कप्पंति तओ उवस्सया पडिलेहित्तते, तंजहा - अहे आगमणगिहंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलगिहंसि वा । एवमणुण्णवित्तते, उवातिणित् । पडिमापडिवन्नस्स णं अणगारस्स कप्पंति तओ संथारगा पडिलेहित्तते, तंजहा - पुढविसिला, कट्ठसिला, अधासंथडमेव । एवं अणुण्णवित्तते, वातिणित्तते । [टी०] व्याख्यात: तृतीय उद्देशकः, अधुना चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धःपूर्वस्मिन् उद्देशके पुद्गल - जीवधर्मास्त्रित्वेनोक्ता इहापि त एव तथैवोच्यन्त इत्यनेन 10 सम्बन्धेनायातस्यास्येदमादिसूत्रषट्कं पडिमेत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- पूर्वसूत्रे श्रमणमाहनस्य पर्युपासनायाः फलपरम्परोक्ता इह तु तद्विशेषस्य कल्पविधिरुच्यत इत्येवंसम्बन्धितस्यास्य व्याख्या - प्रतिमां मासिक्यादिकां भिक्षुप्रतिज्ञाविशेषलक्षणां प्रतिपन्नः अभ्युपगतवान् यः स तथा तस्याऽनगारस्य कल्पन्ते युज्यन्ते त्रय उपाश्रीयन्ते भज्यन्ते शीतादित्राणार्थं थे ते उपाश्रयाः वसतयः प्रत्युपेक्षितुम् 15 अवस्थानार्थं निरीक्षितुमिति, अहेत्ति अथार्थ:, अथशब्दश्चेह पदत्रयेऽपि त्रयाणामप्याश्रयाणां प्रतिमाप्रतिपन्नस्य साधोः कल्पनीयतया तुल्यताप्रतिपादनार्थः, वा विकल्पार्थः, पथिकादीनामागमनेनोपेतं तदर्थं वा गृहमागमनगृहं सभा - प्रपादि, यदाह 25 २६६ आगंतु गारत्थजो जहिं तु, संठाइ जं वाऽऽगमणम्मि तेसिं । तं आगमोकं तु विदू वयंति, सभा - पवा - देउलमाइयं च || [ बृहत्कल्प० ३४८६]त्ति । तस्मिन् उपाश्रयः तदेकदेशभूतः प्रत्युपेक्षितुं कल्पत इति प्रक्रम इति । तथा वियडं ति विवृतम् अनावृतम्, तच्च द्वेधा अध ऊर्ध्वं च तत्र पार्श्वत एकादिदिक्षु अनावृतमधोविवृतम्, अनाच्छादितममालगृहं चोर्ध्वविवृतम्, तदेव गृहं विवृतगृहम्, उक्तं च 2 अवाउडं जं तु चउद्दिसिं पि दिसामहो तिन्नि दुवे य एक्का । अहे भवे तं वियडं गिहं तु, उट्टं अमालं च अतिच्छदं च ॥ [ बृहत्कल्प० ३५००] त्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy