SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ [सू० १९५] २६५ तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । जाव सा णं भंते ! अकिरिया किंफला ? निव्वाणफला । से णं भंते! णिव्वाणे किंफले ? सिद्धिगइगमणपज्जवसाणफले पन्नत्ते समणाउसो ! ॥ तइयस्स तृतीयः॥ [टी०] अनन्तरमा दिविनिश्चय उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गतो भगवत्प्रश्नद्वारेण निरूपयन्नाह- तहारूवेत्यादि 5 पाठसिद्धम्, केवलं पर्युपासना सेवा, श्रवणं फलं यस्या: सा तथा, साधवो हि धर्मकथादिकं स्वाध्यायं कुर्वन्तीति श्रवणं तत्सेवायां भवतीति, ज्ञानं श्रुतज्ञानम्, विज्ञानम् अर्थादीनां हेयोपादेयत्वविनिश्चयः, एवमिति पूर्वोक्तेनाऽभिलापेन ‘से णं भंते! विन्नाणे किंफले?, पच्चक्खाणफले' इत्यादिना, इयं गाथा अनुगन्तव्या अनुसरणीया, एतद्गाथोक्तानि पदान्यध्येतव्यानीत्यर्थः, सवणेत्यादि, भावितार्था, नवरं 10 प्रत्याख्यानं निवृत्तिद्वारेण प्रतिज्ञाकरणम्, संयम: प्राणातिपाताद्यकरणम्, उक्तं च पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयम: सप्तदशभेदः ॥ [प्रशम० १७२] इति ।। अनाश्रवो नवकर्मानुपादानम् । अनाश्रवणाल्लघुकर्मत्वेन तपोऽनशनादिभेदं भवति। व्यवदानं पूर्वकृतकर्मवनलवनं दाप् लवने [पा० धा० १०५९] इति वचनात्, 15 कर्मकचवरशोधनं वा दैप शोधने [पा० धा० ९२४] इति वचनादिति । अक्रिया योगनिरोधः, निर्वाणं कर्मकृतविकारविरहितत्वम् । सिद्ध्यन्ति कृतार्था भवन्ति यस्यां सा सिद्धिः लोकाग्रम्, सैव गम्यमानत्वाद् गतिः, तस्यां गमनम्, तदेव पर्यवसानफलं सर्वान्तिमप्रयोजनं यस्य निर्वाणस्य तत् सिद्धिगतिगमनपर्यवसानफलं प्रज्ञप्तं मया अन्यैश्च के वलिभिः, हे श्रमणायुष्मन्निति गौतमादिकं शिष्यं 20 भगवानामन्त्रयन्निदमुवाचेति। ॥ त्रिस्थानकस्य तृतीयोद्देशको विवरणत: समाप्त: ।। १. काररहित पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy