SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २६४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तथा-अर्थाख्य: पुरुषार्थोऽयं प्रधान: प्रतिभासते । तृणादपि लघु लोके धिगर्थरहितं नरम् ॥ [ ] इति । इयं च कामन्दकादिशास्त्ररूपा । एवं धर्मोपायकथा धर्मकथा, उक्तं चदया-दान-क्षमाद्येषु धर्माङ्गेषु प्रतिष्ठिता। धर्मोपादेयतागर्भा बुधैर्धर्म्मकथोच्यते ॥ [ ] तथा-धर्माख्यः पुरुषार्थोऽयं, प्रधान इति गीयते । पापसक्तं पशोस्तुल्यं, धिग्धर्मरहितं नरम् ॥ [ ] इति । इयं चोत्तराध्ययनादिरूपाऽवसेयेति । एवं कामकथाऽपि, यदाह कामोपादानगर्भा च, वयोदाक्षिण्यसूचिका। 10 अनुरागेङ्गिताद्युत्था, कथा कामस्य वर्णिता ॥ [ ] तथा- स्मितं न लक्षण वचो न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् । अवाप्यतेऽन्यैर्हदयोपगृहनं न कोटिकोट्याऽपि तदस्ति कामिनाम् ॥[ ] इति । इयमपि वात्स्यायनादिरूपाऽवसेयेति, प्रकीर्णा वा तत्तदर्था वचनपद्धतिः कथाचरित्रवर्णनरूपा वा । अर्थादिविनिश्चयाः अर्थादिस्वरूपपरिज्ञानानि, तानि च अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखम्, धिगर्थं दुःखकारणम् ॥ [ ] तथा- धनदो धनार्थिनां धर्मः, कामदः सर्वकामिनाम् ।। धर्म एवापवर्गस्य पारम्पर्येण साधकः ॥ [धर्मबिन्दु० १।२] तथा- शल्यं कामा विषं कामा: कामा आशीविषोपमाः । 20 कामानभिलषन्तोऽपि निष्कामा यान्ति दुर्गतिम् ॥ [ ] इत्यादीनि । [सू० १९५] तहारूवं णं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पन्जुवासणता ? सवणफला । से णं भंते ! सवणे किं फले ? णाणफले । से णं भंते ! णाणे किंफले ? विण्णाणफले । एवमेतेणं अभिलावेणं इमा गाधा अणुगंतव्वासवणे णाणे य विन्नाणे पच्चक्खाणे य संजमे ।। अणण्हते तवे चेव वोदाणे अकिरि णिव्वाणे ॥१३॥ १. सल्लं कामा विसं कामा कामा आसीविसोपमा। कामे य पत्थेमाणा अकामा जंति दोग्गई ॥ -- उत्तरा० ९।५३।। 15 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy