SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २५७ [सू० १९२] तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः भविष्यतीत्यादिरूपमिति, प्रदानलक्षणमिदम् य: सम्प्राप्तो धनोत्सर्गः, उत्तमाधममध्यमः । प्रतिदानं तथा तस्य १ गृहीतस्यानुमोदनम् २॥ द्रव्यदानमपूर्वं च ३, स्वयंग्राहप्रवर्त्तनम् ४ । देयस्य प्रतिमोक्षश्च ५, दानं पञ्चविधं स्मृतम् ॥ [ ] धनोत्सर्गो धनसम्पत्, स्वयंग्राहप्रवर्त्तनम् परस्वेषु, देयप्रतिमोक्ष ऋणमोक्ष इति। प्रयोगश्चासामेवम् उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, समं तुल्यपराक्रमैः ॥ [ ] इति । [सू० १९२] तिविधा पोग्गला पन्नत्ता, तंजहा-पओगपरिणता, मीसापरिणता, 10 वीससापरिणता । तिपतिट्ठिया णरगा पन्नत्ता, तंजहा-पुढविपतिट्ठिता, आगासपतिट्ठिता, आयपतिट्टिता । णेगम-संगह-ववहाराणं पुढविपइट्ठिया, उजुसुतस्स आगासपतिट्ठिया, तिण्हं सद्दणयाणं आयपतिट्ठिया । [टी०] अनन्तरं जीवा धर्मत: प्ररूपिता:, इदानीं पुद्गलांस्तथैव प्ररूपयन्नाह- तिविहा 15 पुग्गलेत्यादि । प्रयोगपरिणता: जीवव्यापारेण तथाविधपरिणतिमुपनीता:, यथा पटादिषु कादिषु वा, मीस त्ति प्रयोग-विस्रसाभ्यां परिणताः, यथा पटपुद्गला एव प्रयोगेण पटतया विस्रसापरिणामेन चाऽभोगेऽपि पुराणतयेति, विस्रसा' स्वभाव:, तत्परिणता अभ्रेन्द्रधनुरादिवदिति । ___ पुद्गलप्रस्तावाद्विस्रसापरिणतपुद्गलरूपाणां नरकावासानां प्रतिष्ठाननिरूपणायाह- 20 तिपतिट्ठियेत्यादि स्फुटम्, केवलं नरका नरकावासाः, आत्मप्रतिष्ठिता: स्वरूपप्रतिष्ठिताः। तत्प्रतिष्ठानं नयैराह- णेगमेत्यादि, नैकेन सामान्य-सामान्यविशेषविशेषग्राहकत्वात् तस्याऽनेकेन ज्ञानेन मिनोति परिच्छिनत्तीति नैकमः, अथवा निगमा: निश्चितार्थबोधास्तेषु कुशलो भवो वा नैगम:, अथवा नैको गम: अर्थमार्गो यस्य स प्राकृतत्वेन नैगम: १, संग्रहणं भेदानां सङ्गृह्णाति वा तान् संगृह्यन्ते वा ते येन स 25 १. प्रतिषु पाठा:- नरकावासा: जे१ । नरका नारकावासा: खं० पा० जे२ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy