SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २५८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सङ्ग्रहो महासामान्यमात्राभ्युपगमपर इति २, व्यवहरणं व्यवह्रियते वा स व्यवह्रियते वा तेन विशेषेण वा सामान्यमवह्रियते निराक्रियतेऽनेनेति लोकव्यवहारपरो वा व्यवहारो विशेषमात्राभ्युपगमपर: ३, एतेषां नयानां मतेनेति गम्यम् । ऋजु अवक्रमभिमुखं श्रुतं श्रुतज्ञानं यस्येति ऋजुश्रुतः, ऋजु वा अतीतानागतवक्रपरित्यागाद्वर्त्तमानं वस्तु सूत्रयति 5 गमयतीति ऋजुसूत्र:, स्वकीयं साम्प्रतं च वस्तु नान्यदित्यभ्युपगमपर: ४, शप्यते अभिधीयतेऽभिधेयमनेनेति शब्दो वाचको ध्वनि:, नयन्ति परिच्छिन्दन्त्यनेकधर्मात्मकं सद्वस्तु सावधारणतयैकेन धर्मेणेति नया:, शब्दप्रधाना नया: शब्दनया:, ते च त्रय:शब्द-समभिरूद्वैवंभूताख्या:, तत्र शपनमभिधानं शप्यते वा य: शप्यते वा येन वस्तु स शब्दः, तदभिधेयविमर्शपरो नयोऽपि शब्द एवेति, स च भावनिक्षेपरूपं 10 वर्तमानमभिन्नलिङ्गवाचकं बहुपर्यायमपि च वस्त्वभ्युपगच्छतीति ५, वाचकं वाचकं प्रति वाच्यभेदं समभिरोहति आश्रयति य: स समभिरूढः, स ह्यनन्तरोक्तविशेषणस्यापि वस्तुनः शक्र-पुरन्दरादिवाचकभेदेन भेदमभ्युपगच्छति घट-पटादिवदिति । यथा शब्दार्थो घटते चेष्टत इति घट इत्यादिलक्षण: एवमिति तथा भूत: सत्यो घटादिरों नान्यथेत्येवमभ्युपगमपर एवंभूतो नय:, अयं हि भावनिक्षेपादिविशेषणोपेतं 15 व्युत्पत्त्यर्था विष्ट मेवार्थमिच्छति, जलाहरणादिचेष्टावन्तं घट मिवेति ७ । तत्राद्यत्रयस्याशुद्धत्वात् प्रायो लोकव्यवहारपरत्वाच्च पृथिवीप्रतिष्ठितत्वं नरकाणामिति मतम् । चतुर्थस्य शुद्धत्वात् आकाशस्य च गच्छ तां तिष्ठतां वा सर्वभावानामैकान्तिकाधारत्वात् भुवोऽनैकान्तिकत्वाच्चाकाशप्रतिष्ठितत्वमिति, त्रयाणां तु शुद्धतरत्वात् सर्वभावानां स्वभावलक्षणाधिकरणस्यान्तरङ्गत्वादव्यभिचारित्वाच्च 20 आत्मप्रतिष्ठितत्वमिति, न हि स्वस्वभावं विहाय परस्वभावाधिकरणा भावा: कदाचनापि भवन्तीति, यत आह वत्थु वसइ सहावे सत्ताओ चेयणव्व जीवम्मि । न विलक्खणत्तणाओ भिन्ने अन्यत्र छायातवे चेव ॥ [विशेषाव० २०४२] त्ति । [सू० १९३] तिविहे मिच्छत्ते पन्नत्ते, तंजहा-अकिरिया, अविणए, अन्नाणे 25 १॥ १. दृश्यतां पृ० ४० टि० २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy