________________
२५६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे लौकिक: सामान्यलोकाश्रयो निश्चयोऽनुष्ठानं वा, वेदाश्रितो वैदिकः, समय: साङ्ख्यादीनां सिद्धान्तः, तदाश्रितस्तु सामयिकः ७)
लौकिकादयो व्यवसाया: प्रत्येकं त्रिविधाः, ते च प्रतीता एव, नवरम् अर्थधर्म-कामविषयो निर्णयो यथा5 अर्थस्य मूलं निकृतिः क्षमा च, धर्मस्य दानं च दया दमश्च ।
कामस्य वित्तं च वपुर्वयश्च, मोक्षस्य सर्वोपरम: क्रियासु ॥ [ ] इत्यादिरूपः, तदर्थमनुष्ठानं वा अर्थादिरेव व्यवसाय उच्यते इति ८ । ऋग्वेदाद्याहितो निर्णयो व्यापारो वा ऋग्वेदादिरेवेति ९ । ज्ञानादीनि सामयिको व्यवसाय:, तत्र ज्ञानं
व्यवसाय एव, पर्यायशब्दत्वात्, दर्शनमपि श्रद्धानलक्षणं व्यवसायः, 10 व्यवसायांशत्वात्तस्येति प्रतिपादितमेव, चारित्रमपि समभावलक्षणो व्यवसाय एव,
बोधस्वभावस्यात्मन: परिणतिविशेषत्वात्, यच्चोच्यते सच्चरणमणुट्ठाणं विहिपडिसेहाणुगं तत्थ [ ] त्ति तद् बाह्यचारित्रापेक्षमवगन्तव्यमिति । अथवा ज्ञानादौ विषये यो व्यवसायो बोधोऽनुष्ठानं वा स विषयभेदात् त्रिविध इति । सामयिकता चास्य
सम्यग्मिथ्याशब्दलाञ्छितस्य ज्ञानादित्रयस्य सर्वसमयेष्वपि भावादिति १० ।। 15 अर्थस्य राजलक्ष्म्यादेोनि: उपायोऽर्थयोनिः, साम प्रियवचनादि, दण्डो वधादिरूप:
परनिग्रहः, भेदो जिगीषितशत्रपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिः, क्वचित्तु दण्डपदत्यागेन प्रदानेन सह तिम्रोऽर्थयोनय: पठ्यन्ते, भवन्ति चात्र श्लोका:परस्परोपकाराणां दर्शनं १ गुणकीर्तनम् २ । सम्बन्धस्य समाख्यान ३ मायत्या: संप्रकाशनम् ४ ॥ [ ] अस्मिन्नेवं कृते इदमावयोर्भविष्यतीत्याशाजननमायतिसंप्रकाशनमिति, वाचा पेशलया साधु तवाहमिति चार्पणम् ५ । इति सामप्रयोगज्ञैः साम पञ्चविधं स्मृतम् ॥ वधश्चैव १ परिक्लेशो २ धनस्य हरणं तथा ३ । इति दण्डविधानजैर्दण्डोऽपि त्रिविध: स्मृतः ॥ स्नेहरागापनयनं १ संहर्षोत्पादनं तथा २ । सन्तर्जनं च ३ भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः ॥ [ ] संहर्ष: स्पर्धा, सन्तर्जनं च अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org