________________
[सू० १९०-१९९]
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः ।
अहवा तिविधे ववसाते पन्नत्ते, तंजहा - इहलोइए, परलो गिते, इहलोगितपरलोगिते ६ |
इहलगिते ववसाते तिविहे पन्नत्ते, तंजहा - लोगिते, वेतिते, सामतिते ७ । लोगिते ववसाते तिविधे पन्नत्ते, तंजहा - अत्थे, धम्मे, कामे ८ । वेतिते ववसाते तिविधे पन्नत्ते, तंजहा- रिव्वेदे, जजुवेदे, सामवेदे ९ | सामतिते ववसाते तिविधे पन्नत्ते, तंजहा - णाणे, दंसणे, चरित्ते १० । तिविधा अत्थजोणी पन्नत्ता, तंजहा - सामं, दंडे, भेदे ११ ।
5
[टी०] उक्ता: कर्मभूमयः, अथ तद्गतजनधर्म्मनिरूपणायाह-तिविहेत्यादिसूत्राण्येकादश कण्ठ्यानि, किन्तु त्रिविधं दर्शनं शुद्धा ऽशुद्ध- मिश्रपुञ्जत्रयरूपं मिथ्यात्वमोहनीयम्, तथाविधदर्शनहेतुत्वादिति १ । रुचिस्तु तदुदयसम्पाद्यं तत्त्वानां 10 श्रद्धानम् २। प्रयोगः सम्यक्त्वादिपूर्वी मनःप्रभृतिव्यापार इति, अथवा सम्यगादिप्रयोगः उचितानुचितोभयात्मक औषधादिव्यापार इति ३ ।
व्यवसायो वस्तुनिर्णयः पुरुषार्थसिद्ध्यर्थमनुष्ठानं वा, स च व्यवसायिनां धार्मिकाधार्मिक-धार्मिकाधार्मिकाणां संयता - ऽसंयत- देशसंयतलक्षणानां सम्बन्धित्वादभेदेनोच्यमानस्त्रिधा भवतीति, संयमा-ऽसंयम- देशसंयमलक्षणविषयभेदाद्वा 15
४ ।
व्यवसायो निश्चयः, स च प्रत्यक्षोऽवधि- मन: पर्याय- केवलाख्यः, प्रत्ययात् इन्द्रियानिन्द्रियलक्षणान्निमित्ताज्जातः प्रात्ययिकः, साध्यम् अग्न्यादिकमनुगच्छति साध्याभावे न भवति यो धूमादिहेतुः सोऽनुगामी, ततो जातमानुगामिकम् अनुमानम्, तद्रूपो व्यवसाय आनुगामिक एवेति । अथवा प्रत्यक्ष: स्वयंदर्शनलक्षणः, प्रात्ययिक: 20 आप्तवचनप्रभवः, तृतीयस्तथैवेति ५ ।
इहलोके भव ऐहलौकिको य इह भवे वर्त्तमानस्य निश्चयोऽनुष्ठानं वा स ऐहलौकिको व्यवसाय इति भाव:, यस्तु परलोके भविष्यति स पारलौकिकः, यस्त्विह परत्र च स ऐहलौकिकपारलौकिक इति ६ ।
१. सामे भां० जे० ॥। २. प्रत्य' जे१ खं० ॥
Jain Education International
२५५
For Private & Personal Use Only
www.jainelibrary.org